SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये तृतीयो युष्मत्पादः ४२३ " ' २. एनेन । एतद् + टा ! द् को अ तकारोत्तरवर्ती अ का लोप प्रकृत सूत्र से एत को एन, “इन टा" (२।१।२३) से टा के स्थान में 'इन' तथा " अबर्ण इवर्णे ए" (१।२।२ ) से अ को ए - परवर्ती इ का लोप । " ३. एनयोः । एतद् + ओस् ! द् को अ तकारोत्तरवर्ती अ का लीप, एत को एन, “ओसि च” (२।१।२० ) से नकारोत्तरवर्ती अकार को एकार, " ए अय्" ( १/२/१२ ) से एकार को 'अय्' तथा "रेफसोर्विसर्जनीयः " ( २। ३ । ६३ ) से स् को विसर्गादेिश || २५८ | २५९ तस्माद् भिस् भिर् [ २।३।३८ ] [ सूत्रार्थ ] अकारादेशविशिष्ट ‘इदम्' शब्द से परवर्ती 'भिस्' प्रत्यय को भिर् आदेश होता है ।। २५९ । [दु० वृ० ] तस्मादिदमः कृताकारात् परो भिस् भिर् भवति । एभिः । केचित् तस्मादिति किम् ? इमैः || २५९ / [दु० टी० ] तस्मा० । अनन्तरत्वादेतत् - शब्दस्यानुवृत्तिर्न स्यात् तस्माद्ग्रहणेन इदम एव परामर्शनं क्रियते, सन्निपातलक्षणविधेर्वर्णग्रहणे निमित्तत्वादिदमः कृताकाराद् भिस ओसि प्राप्ते तद्बाधनार्थं भिरभिधीयते इत्याह- कृताकारादित्यादि । ये त्वनादेशं प्रति वक्तव्यमाचक्षते ते तस्माद् - ग्रहणेनाद्विधिमनित्यं मन्यन्ते इत्याह- केचिद् इत्यादि । न चैवं परदर्शनमस्तीति सूत्रमेवैतद् यदि भिसो भिसेवोच्यते यथैस्त्वं च बाधते, तथा विसर्जनीयमपीति पक्षे उच्यते । अघोषे “रप्रकृतिरनामिपरोऽपि " (१/५/१४) इति न भवति, बहुलत्वात् ।। २५९ / [वि० प० ] तस्माद्० । तस्मादिदन इति कथमेतद् यावता अनन्तरत्वाद् एतच्छब्दस्यैवानुवृत्तिः प्राप्नोति, न त्विदमस्तस्य चानुकृष्टत्वादिति ? सत्यम्, एतदर्थमेव तस्माद्ग्रहणम्, अन्यथा अनन्तरत्वादेतच्छब्दस्यैव प्रवृत्तिः सिद्धा किं तस्माद्ग्रहणेन । अकारे कृते भिसैस् वा इति प्राप्ते तदपवादो भिरादेश उच्यते । ननु भिसि परतो "अद् व्यञ्जनेऽनक् " .
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy