________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
४९१
[ रूपसिद्धि ]
१. इमौ । इदम् + औ । “त्यदादीनाम विभक्ती" (२|३ | २९ ) से म् को अ, " अकारे लोपम्” (२।१।१७ ) से दकारोत्तरवर्ती अकार का लोप, प्रकृत सूत्र से दकार को मकार तथा “ ओकारे औ औकारे च" (१।२।७ ) से अ को औ- परवर्ती औ का लोप ।
२. इमकौ । इदम् + औ । म् को अ, पूर्ववर्ती अ का लोप, "अव्ययसर्वनाम्नः स्वरादन्त्यात् पूर्वोऽकू कः " (२।२।६४ ) से दकार के बाद अक् तथा प्रकृत सूत्र से दकार को मकारादेश ।। २५२ ।
२५३.
सौ सः [ २।३।३२ ]
[ सूत्रार्थ ]
त्यदादिगणपठित शब्दों में विद्यमान दकार का सकारादेश होता है, सि - विभक्ति परे रहते । २५३ |
[दु० वृ० ]
त्यदादीनां दकारस्य मकारो भवति सौ विभक्तौ । असौ, असकौ । साक्षात् सःविति किम् ? असौ पुत्रोऽस्येति अदः पुत्रः ।। २५३।
[दु० टी० ]
सौ० । अद्वेरिति न वर्तते सावसम्भवात् । द्वाविच्छतीति विनि दीर्घत्वे क्विपि कृते द्वीरिति भवितव्यम् । नान्यदा त्यदादीनामिति विशेषणात् : तथा च संज्ञोपसर्जनवोर्न भवति - अदाः, अत्यदाः । सौ विभक्ताविति । न्नु किमर्थं विभक्तादिति विशेषणम्, सिरयमर्थवान् विभक्तित्वं न व्यभिचरतीति सत्यन् । सौ विभक्तौ परतो वर्तमानानां त्यदादीनां नान्यस्मिन् परत इति प्रतिपत्त्यर्थः तेन युक्तार्थे न भवति प्रत्ययलोपलक्षणेनेत्याह - साक्षादित्यादि । तथा अकि कृतेऽनेकवर्णव्यवहितेऽपि भवत्येव । अत्रापि परिशिष्यतेऽदस एव ॥ २५३॥
1
,
[वि० प० ]
सौ० । सौ विभक्ताविति । ननु किमर्थमिदं विभक्तावित्यधिकृत्य सिर्विशिष्यते । न ह्ययं विभक्तित्वं व्यभिचरतीति ? सत्यम् । सौ विभक्तौ परतो वर्तमानानामेषां दकारस्य सो भवति, नान्यस्मिन् परत इतेि प्रतिपत्तव्यम् । तेन युक्तार्थे न भवति, प्रत्ययलोपलक्षणे सत्यपीत्याह - साक्षादित्यादि ।। २५३ |