SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३७६ कातन्त्रव्याकरणम् २३७. सामाकम् [२।३।१६ ] [ सूत्रार्थ ] 'युष्मद्- अस्मद्' शब्दों से परवर्ती षष्ठीविभक्ति- बहुवचन 'आम्' प्रत्यय को सु-आगमसहित (साम्) 'आकम्' आदेश होता है ।। २३७ | [दु० वृ०] आभ्यां परः स्वागमयुक्तः आम् आकम् भवति । युष्माकम् अस्माकम् । सामिति किम् ? प्रिययुष्मयाम्, अतित्वयाम् ॥ २३७। [दु० टी०] सामू० । “ एत्वमस्थानिनि” (२।३।१७ ) इत्येत्वे प्राप्तेऽयमादेशः अन्तदर्शनादन्तलोपे सयुक्त आम् आकम् भवतीति सामित्युच्यते । आमित्युक्ते 'आगमादेशयोरागमो विधिर्बलवान्' (का० परि० ४० ) इति वचनं बाधित्वा 'आगमात् सवदिशो विधिर्बलवान्' (का० परि० ४१ ) इति स्यात्, सकारस्तु केन निवार्यते ? अथ ‘सकृद्बाधितो विधिर्बाधित एव' (का० परि० ३६ ) इति, तथापि सकारग्रहणं कर्तव्यमित्याह-सामित्यादि । 'प्रिया यूयं येषाम् त्वामतिक्रान्तानाम्' इति विग्रहे युष्मदस्मदोरुपसर्जनयोरसर्वनामत्वान्न सुरागम इति । किञ्च युवामावाम् इत्यत्र चाकम् स्यात्, एत्वात्वविषयादन्यत्र येषां युष्मदस्मदोरन्त्यस्वरादिलोप इति दर्शनम्, तेन षष्ठीबहुवचनं प्रतिपद्य आकमं विदधति सकारस्याभावेऽपि तदा प्रिययुष्माकम्, अतित्वाकम् इति भवितव्यम् । तदा प्रिययुवाकमिति । दीर्घोच्चारणमकारलोपः स्यात् तदा कमिति विदध्याच्चेत्, नैवम् । धुट्येत्वं स्यादिति ।। २३७। [वि० प० ] " सामा० । अथ 'किमिदं सामिति ? सत्यम्, अन्तलोपे सति यदा “सुरामि सर्वतः ” (२ । १ । २९) इति सुरागमस्तदा तद्युक्तं षष्ठीबहुवचनमेवाम् सामित्याह - स्वागमयुक्त आमिति । ननु सकारग्रहणं किमर्थम् 'आम्' इत्युच्यताम् 'आगमादेशयोरागमो विधिर्बलवान्' (का० परि० ४० ) इति स्वागमे कृते " तृतीयादौ तु परादिः " (२।१।७) इति परादित्वे सति सामेव भविष्यति । तदयुक्तम् । अनेकवर्णत्वात् सर्वस्यैवायमादेश इति । 'आगमात् सवदिशो विधिर्बलवान्' (का० परि० ४१ ) इति पूर्वमाकमादेश एव स्यात् । अस्तु को दोषः, साध्यस्य सिद्धत्वादिति चेत्, तदयुक्तम् ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy