________________
कातन्त्रव्याकरणम्
४. आवाम् | अस्मद् + औ । दकारलोप । आव- आदेश, औ को आम् - आदेश, दीर्घ - आकारलोप ।। २२९।
२३०. आन् शस् [२।३।९] [सूत्रार्थ]
'युष्मद् - अस्मद्' शब्दों से परवर्ती द्वितीयावहुवचन – 'शस्' प्रत्यय के स्थान में ‘आन्' आदेश होता है ।। २३०।
[दु० वृ०]
युष्मदस्मदादिभ्यः परः शस् आन् भवति । युष्मान्, अस्मान् । अतित्वान्, अतिमान् ।।२३०।
[दु० टी०]
आन् । ननु किमर्थमिदं शब्दमात्राश्रितो विधिरन्तलोपे सति "शसि सस्य च नः"(२।१।१६) इति भविष्यति । युष्मान् स्त्रियः, अस्मान् कुलानि' इति सिद्धमेव । अथ परत्वाच्छिरादेश इति चेत्, न । तत्र नपुंसकादिति विशिष्टाद् भविष्यति । नैवम्, "एत्वम् अस्थानिनि" (२।३।१७) स्यादिति । युष्मयतेः क्विपि कृते युष्मान् इत्यपि स्यात् ।।२३०।
[वि० प०]
आन्० । ननु किमर्थमिदम्, यावता अन्तलोपे सत्यकारान्तत्वात् “शसि सस्य च नः" (२।१।१६) इति दीर्घत्वे सकारस्य च नत्वे सिद्धं युष्मानिति । न च वक्तव्यम् 'युष्मान् स्त्रियः' इत्यत्र स्त्रियामादाप्रत्यये कृते न सिध्यतीति यावता युष्मदस्मदादीनां स्त्रीत्वादियोग एव न संभवति , स्वभावात् । तथा चोक्तम् – 'ष्णान्ताः संख्या अलिङ्गकाः कत्यव्यययुष्मदस्मदश्च' इति । ततः कुतोऽत्र “स्त्रियामादा'' (२।४ । ४९) आप्रत्ययप्रसङ्गः । तथा 'युष्मान् कुलानि' इत्यत्र च सत्यपि परत्वे कुतः शिरादेशो नपुंसकत्वस्यायोगात् । नैवम् “एत्वमस्थानिनि" (२।३ । १७) इत्येत्वं स्याद्, अनादेशित्वात् । किं च यदा 'युष्मान् आचष्टे' इतीनि कृतेऽन्त्यस्वरादिलोपे च युष्मयतेः क्विप् क्रियते, तदापि युष्मानितीष्यते, तन्न स्याद् अकारान्तत्वाभावात् ।। २३०।