________________
३५०
कातन्त्रव्याकरणम्
परिशिष्टम् आमन्त्र्ये नित्यं नाविद्यमानवत् । छात्रौ गुणिनौ वां स्वम् । छात्र ! गुणिन् ! ते स्वम्, सामान्यवचनमित्येव । देवदत्त! जटिलक तव स्वम् । कथमुचितं रचयामि देवि! ते ।अविद्यमानवद् वादी पुनराह - व्यवधायकत्वं नास्तीति पदान्तराद् भविष्यतीति । इह तु व्यवस्थितविभाषयैव प्रतिपत्तव्यम् । दृश्यार्थैर्मनोविज्ञाने प्रतिषेधो न वक्तव्यः । यथा-ग्रामो युष्मान्, ग्रामोऽस्मान् समीक्ष्य गतः, तथा ग्रामस्तव स्वम्, ग्रामो मम स्वं समीक्ष्य गतः । ग्रामस्त्वाम्, ग्रामो मां समीक्ष्य गतः । ग्रामस्त्वां मनसाऽऽलोच्य गत इत्यर्थः । मनोविज्ञानं हि स्मरणम्, स इति पूर्वप्रक्रान्तव्यपेक्षासम्बन्धितया गौणत्वात् ।
__ अन्वादेशे तु वसादयो नित्यं वक्तव्याः । कथितानुकथनमन्वादेशः । तेनान्येन वा शब्देन कस्यचित् किञ्चित् प्रतिपादयितुं कथितस्य प्रतिपाद्यान्तरप्रतिपादनाय तेन द्वितीयं कथनम्, तस्मिन् विषये इत्यर्थः । तस्माद् व्यपेक्षासम्बन्धेन गौणत्वात् । अतो गौणेऽपि विधिश्चेत् तथापि नित्यार्थं व्यवस्थितविभाषा वाच्या । अथ यो ग्रामः, अथ नो धनमित्यादि । सपूर्वपदात् प्रथमान्ताद् वा भवत्येव अन्वादेशेऽपि । अथो ग्रामे धनं युष्माकम्, अथो ग्रामे धनं वः । अथो ग्रामे धनमस्माकम्, अथो ग्रामे धनं नः इत्यादि । वाक्यादावपि पक्षे वाधिकार इष्टसंसिद्धयर्थ एव वाक्यस्य नित्यत्वाद् विभाषा सिद्धैव ।।२२५।
[वि० ५०]
न पादा० ।वृत्तानामार्यादीनां चतुर्थो भागः पादः इह गृह्यते. अर्थसमाप्तिरपीत्यपरे । यथोक्तमपि चापिशलीयैः -
पादस्त्वर्थसमाप्तिर्वा ज्ञेयो वृत्तस्य वा पुनः।।
मात्रिकस्य चतुर्भागः पाद इत्यभिधीयते॥ तस्मात् ‘स पचति युष्माकं पुत्रो गायति . स पचति अस्माकं पुत्री रोदिति' इत्यादिष्वप्यनेनैव प्रतिषेध इति । मात्रिकस्येति । मात्रा परिमाणमस्यति इका. आर्यादिर्मात्रिक उच्यते । 'पान्तु वः' इति ! पान युप्मानित्यर्थः इत्यादीत्यनेन वृत्तस्य पादत्रयपरं सूचयति । यथा,
पान्तु वो नरसिंहस्य नखलाङ्गलकोटराः। हिरण्यकशिपोर्वक्षः क्षेत्रासृक्कर्दमारुणाः॥ इति । ', '