________________
૩૪૪
कातन्त्रव्याकरणम्
[दु० वृ०]
युष्मदस्मदोः पदं पदात् परं षष्ठी चतुर्थी- द्वितीयासु द्वित्वे निष्पन्नं यथासंख्यं 'वां नौ' इत्येतौ प्राप्नोति वा । ग्रामो युवयोः, ग्राम आवयोः - ग्रामो वाम्, ग्रामो नौ । एवं दीयते, पातु । आस्विति किम् ? भद्रौ युवाम् भद्रावावाम् || २२३। [दु० टी०]
बांनौ०। वामिति मकारान्तो नौ इत्यौकारान्तोऽयम् आम्नायात् । लुप्तद्वितीयाद्विवचनं पदं पूर्ववदिहापि व्याख्यानम् । द्वित्वे वर्तमानयोर्युष्मदस्मदोरिति प्रकृतिविशेषणे नास्ति साध्यमिति द्वित्व इति विभक्तिविशेषणमेव । एवमित्यादिना चतुर्थीद्वितीययोरेवमेव रूपम् अर्थभेदाय क्रियापदद्वयमात्रं दर्शितम् || २२३ ।
[वि० प०]
बनौ ० । इहापि पूर्ववद् व्याख्यानम् । वामिति मकारान्तोऽयम्, नावित्यौकारान्तः । आम्नायाद् 'वां नौ' इति लुप्तद्वितीयाद्विवचनम् । ग्रामो युवेयोरित्यादि ओसि परे कृतान्तलोपयोर्युष्मदस्मदोर्युवावौ द्विवाचिषु, “एत्वमस्थानिनि” (२ | ३ | १७) इत्येत्वम् । एवमिति । चतुर्थीद्वितीययोरप्येवमुदाहरणम् प्रतिपत्तव्यम् | केवलम् अर्थो भिद्यते इति तत्प्रकाशार्थं क्रियापदद्वयं दर्शितम् । ग्रामो युवाभ्याम्, ग्राम आवाभ्याम् - ग्रामो वाम्, ग्रामो नौ | 'दीयते' इति सम्प्रदाने चतुर्थी । ग्रामो युवाम्, ग्राम आवामिति - ग्रामो वाम, ग्रामो नौ । 'पातु' इति कर्मणि द्वितीया । प्रत्युदाहरणलाघवार्थमिदमाह । प्रकृत्या विभक्ती : : परामृशन्नाह - आस्वित्यादि । तेन प्रथमाद्विवचने न भवतः || २२३ ।
1
[क० च०]
‘श्वः
बांनौ । ननु भद्रे युवामिति नपुंसकमेव युज्यते वक्तुम् । तथा अमरः श्रेयसं शिवं भद्रम्' (१।४।२५) इति । तत् कथमत्र पुंलिङ्गनिर्देश : ? सत्यम् | भद्रशब्दोऽस्त्रीलिङ्गोऽपि दृश्यते । तथा च ' सुभूतिः 'भद्रोऽस्त्री मङ्गलेऽपि स्याच्चातके हरिणान्तरे' इति दर्शनात् पुंसा निर्देशः । आम्नायादिति आचार्यपारम्पर्योपदेशाद् इत्यर्थः । पूर्वसूत्रे पूर्ववद् विभक्तिव्यतिक्रमनिर्देशात् 'गेये केन विनीतौ वां कस्य चेयं कृतिः कवेः' इति राज्ञा स्वयं पृष्टौ तौ 'वाल्मीकिः' इत्यशंसताम् इत्यत्र वामिति प्रथमाद्विवचनमिति केचित् । वस्तुतस्तु 'वां युवयोर्गेये भवन्तौ केन विनीतौ' इति
-
१. सुभूतिनामकेनाचार्येणामरकोशस्य कामधेनुनाम्नी टांका प्रणीता आसीत् । प्रकृतमिदं वचनं तत्रैव स्याद् इति मन्ये ।