SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये द्वितीयः सखिपादः २०९. अवमसंयोगादनोऽलोपोऽलुप्तवच्च पूर्वविधौ [२।२।५३] [ सूत्रार्थ] घुट्- भिन्न स्वरादि प्रत्यय के परे रहते 'अन्' के अकार का लोप होता है यदि वह व् तथा म् से परवर्ती न हो तो तथा उसका अलुप्तवद्भाव होता है, यदि उससे पूर्ववर्ती वर्ण की कोई विधि करनी हो तो ॥। २०९ । [दु० वृ०] ३०५ अनोऽकारस्य लोपो भवति अघुट्स्वरादौ स चेद् अवमसंयोगात् परो भवति । स चालुप्तवद् भवति पूर्वस्य वर्णस्य विधौ कर्तव्ये । राज्ञः राज्ञा । दध्नः दध्ना । प्रतिदीव्नः, प्रतिदीव्ना । अवमसंयोगादिति किम् ? पर्वणः " चर्मणः || २०९ | [दु० टी०] " अवम० । सम्यग् योजनं संयोगः । व्यञ्जनानामानन्तर्यमेव सिद्धम्, तद्वांश्च धर्मी संयोग उच्यते । वमाभ्यां संयोगो विशिष्यते इति वमान्तो 'वम' उच्यते, उपचारात् । वमश्चासौ संयोगश्चेति विग्रहः, पश्चान्नञ्समासः । न पुनर्न विद्येते वमौ यस्मिन् संयोगे इति बहुव्रीहिः ।‘तक्ष्णः, सक्थ्नः' इत्यतोऽन्यत्रासंयोगान्न स्यात् । तदेतत् कथं नाम्नेति निर्देशात् तथा अनो नकारस्य लोप इति च गम्यते । अतोऽर्थवतोऽनर्थकस्यापि ग्रहणमिति । अशनयतिं क्विप् - अश्ना, अश्ने । अलुप्तवद्भावाल्लोपो गम्यते चेत्,नैवम् | 'सविकल्पान्यपि ज्ञापकानि भवन्ति' | तथा चाह - ' ज्ञापकज्ञापिता विधयो ह्यनित्याः' (का० परि० ६०) इति लोपग्रहणम् । वद्ग्रहणं तु सुखप्रतिपत्त्यर्थम् । विधीयते इति विधिः कार्यम्, पूर्वस्य स्थाने विधिरिति न पुनर्विधानं विधिः । तदा पूर्वस्येति कर्मणि षष्ठी । न कश्चित् पूर्वो विधातव्यः संभवतीति भावः । ननु किमर्थमलुप्तवच्च पूर्वविधाविति वचनं 'स्वरादेशः परनिमित्तिकः पूर्वविधिं प्रति स्थानिवद् भविष्यति' ? सत्यम् । “न पदान्त०" (का० परि० १० ) इत्यादिना प्रतिषेधात् स्थानिवद्भावो नास्तीति ततः किं स्यात् - 'तक्ष्णो राज्ञः’ इत्यत्र डत्वम् ‘मज्जः' इत्यत्राकारलोपे गत्वम् | दह्नः इति । दहनयतीति क्विपि कृतेऽकारलोपे सति “दादेर्हस्य गः” (२।३।४७) स्यात् । तदयुक्तम् । हशषछान्तानां यजादीनां च लिङ्गानां च वर्गान्तस्य लिङ्गस्येति विशेषणात् 'प्रतिदीव्नः' इत्यत्र च
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy