SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये द्वितीयः सखिपादः २७१ भयपक्षे वैचित्र्यार्थमेव । पूर्ववत् पथीयतेः क्विप् | पथ्यौ, मथ्यौ, ऋभुक्षियो। संयोगपूर्वत्वाद् यत्वन्न भवति ।। १९२। __ [क० च०] __ अन० । घुटीति किम् ? 'सुपथी कुले' इति दुर्गः । ननु कथमिदमुच्यते "अधुस्वरे लोपम्" (२।२।३७) इत्यस्य विषयत्वात् । अथ कृतेऽपीकारलोपे थकारस्य भविष्यति, नैवम् । 'असिद्धं बहिरङ्गम्०' (का० परि० ३३) इति न्यायान्न भविष्यति, स्थानिवद्भावात्, 'सकृद् गतौ०' (का० परि० ३६) इति न्यायाच्च । सत्यम् । घुग्रहणाभावे स्यादिप्रस्तावात् स्यादेविषयविवक्षायां तदनपेक्षयैव स्यात् । तद्वषये तदनपेक्षयैवानो विधानाद् अघुट्स्वरे इकारलोपम् अपि बाधते । यथा 'स्त्री नदीवद्' इत्यत्र निरपेक्षत्वाद् विकल्पं बाधते इति । न च 'सौ' इत्यनुवर्तनं पूर्वसूत्रादिति वाच्यम्, आत्वेनाघ्रातत्वात् । नापि पाक्षिकप्रवृत्तिः स्यादिति वाच्यम्, एकयोगाकरणात् । अथ तर्हि इकारलोपस्य कुत्र विषय इति चेद् अपपथम् इत्यादौ । तथाहि पन्थिशब्दादिनि कृतेऽघुट्स्वरग्रहणस्य व्याप्त्यर्थत्वाद् इकारलोपे समानलोपात् सन्वद्भावनिषेधात् "सन्यवर्णस्य" (३।३।२६) इतीत्वं न स्यात्, तेन 'अपपथम्' इति सिद्धम् । अथ "इनि लिङ्गस्य" (३।२।१२) इत्यादिना इकारलोपे साध्यस्य सिद्धिरिति चेत्, न । “अत्योपधायाः" (३।६।५) इत्यत्र परत्वादन्तलोपं बाधित्वा नामिग्रहणसामर्थ्यात् पन्धिशब्दस्यापीनि वृद्धौ समानस्यालोपे सन्वद्भावात् "सन्यवर्णस्य" (३।३।२६) इतीत्वे 'अपीपयत्' इत्येवानिष्टरूपं स्यादिति वृद्धौ सन्ध्यक्षरलोपे यथा 'अपीपटत' इत्युक्तम् ।। १९२! [समीक्षा] ‘पन्थि' शब्द से औ-आदि प्रत्ययों में ‘पन्थानौ, पन्थानः' आदि शब्द सिद्ध करने के लिए इ को अन् तथा न् की उपधा को दीर्घ करना पड़ता है । पाणिनि एतदर्थ इ को अ, थ् को न्थ तथा दीर्घविधान करते हैं – “इतोऽत सर्वनामस्थाने, थो न्थः" (अ०७।१।८६, ८७)। यह भी ज्ञातव्य है कि पाणिनि पथिन्, मथिन्' आदि प्रातिपदिक मानते हैं, जबकि कातन्त्रकार ने ‘पन्थि-मन्थि' प्रातिपदिक माने हैं। [रूपसिद्धि] १. पन्थानौ। पन्थि + औ । प्रकृत सूत्र द्वारा इ को अन् तथा "घुटि चासंबुद्धौ" (२।२।१७) से दीघदिश ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy