________________
नामचद्गुष्टयाच्या द्वितीयः सखिपादः
२६९ भवति । “अपुट्स्वरे लोपम्" (२।२।३७) इत्यत्र चानन्त एव वर्णो लोपमापद्यते इति । एषां-ग्रहणसामर्थ्याद् व्यञ्जने चैषामन्तराणां व्यवहितस्यापि नस्य लोपो भवति । अत्र पक्षे नपुंसकसंबोधने नकारस्थितिरपि भवति । "स्वतिभ्यां पूजायाम्" (२।६।७३-६२) अदन्तता नास्त्येव । हे सुपथिन् कुलेति । आद्ये तु पक्षे 'हे सुपथि कुल' इति नित्यं तदुक्तं न भवत्येवेति ।। १९१!
[वि० प०]
पन्थि० । हे पन्थाः! इति संबुद्धौ चैत्वम् अनेन चात्वं प्राप्तम्, उभयप्राप्ती परत्वाद् आत्वम् ।। १९१।
[क० ब०]
पन्थिः । ननु 'हे पन्थाः!' इत्यत्र भूतपूर्वं ह्रस्वमाश्रित्य संबुद्धेर्लोपः कथन्न भवति ? सत्यम् । नदीश्रद्धाभ्यां साहचर्याद् ह्रस्वादपि भूतपूर्वादिति यदुक्तं पत्रिकायां तन्न सर्वत्र | किन्तु साहचर्याद् यत्र संबुद्धिमाश्रित्य ह्रस्वो विकृतस्तत्रेति हेमकरः, तन्न | "हस्वनदी०" (२११।७१) इत्यत्र टीकायां सह इना वर्तते इति से, तस्य संबोधने हे से! इत्यत्र संबुद्धिमनाश्रित्य विकृताद् भूतपूर्वह्रस्वात् सेर्लोपस्योक्तत्वात् । साविति सेरेव ग्रहणं न सुपः पूर्वपरयोर्घटप्रस्तावात् । यद् वा अस्मिन् सूत्रे सामान्याघुड्व्यञ्जन एव नकारलोपप्राप्तौ यत् पुनर्नकारं निर्दिशति तज्ज्ञापयतिनकारसंबन्ध एवात्वम् । एतेनापि नकाराभावादेव न भवत्यात्वम् । अतो 'राजपथः' इत्यादौ न दोषः।
अत्र वैयःश्रद्धाविकारे भवतीह नामी नदीविकारेऽपि स एव दृष्टः । हस्वे विकारे किल साहचर्याद् हे पन्थिशब्दस्य कुतो न लोपः॥ इत्याह ।
तन्न | ' हे अम्ब !' इत्यादौ श्रद्धाविकारेऽनामिनोऽपि दृष्टत्वात् । तस्माद् "आ च न संबुद्धौ" (२।१।७०) इत्यतो ह्रस्वनदीत्यत्र आ च नेति प्रवर्तते । तच्चार्थवशात् पञ्चम्यन्ततया आकाराच्च न भवतीत्यर्थः । 'हे पन्थाः' इत्यत्र कुतः प्राप्तिरिति कुलचन्द्रः ।।१९१।