________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
१८८. हनेर्हेर्धिरुपधालोपे [ २।२।३२ ]
२६३
[ सूत्रार्थ ]
'हन्' में उपधालोप हो जाने पर हू को 'घ्' आदेश होता है || १८८ |
[दु० वृ०]
हनेरुपधाया लोपे कृते हे : स्थाने घिर्भवति । वृत्रघ्नः, वृत्रघ्ना । उपधालोप इति किम् ? वृत्रहयति ।। १८८ । [दु० टी०]
इने० । हेर्धिरिति द्वयोरपि इकार उच्चारणार्थः । हनेः पुनर्धातुनिर्देशाय । तेन ‘अह्ना, प्लीह्ना' इत्यत्र न भवति । व्युत्पत्तिपक्षे नञि जहातेः कन् । 'प्लीहन्, तक्षन्, मज्जन्' इति निपातः । यद्येवम्, 'अर्थवद्ग्रहणे नानर्थकस्य' (कात० प० ४ ) इति सिद्धम् । तर्हीकारमन्तरेण ‘घ्न' इति निर्देशः स्यात्, ततो बाला विप्रतिपद्यन्ते विलक्षणनिर्देशोऽपि गरीयानेव । हनेर्हेरिलोप इति सिद्धे उपधाग्रहणम् उपधाया लोपे यथा स्यादित्याह – उपधेत्यादि । वृत्रहणमाचष्टे इतीन् । तत्रान्त्यस्वरादेर्लोपः “हस्य हन्तेर्धिरिनिचोः”(३।६।२८) । ततो ने चेति कृते हस्य हन्तेर्धिर्भवति नेऽन्तरेऽर्थादुपधालोपो भवतीति । नैवम् । प्रकरणवशादाख्यातिकोपधालोप एव स्यादिति यथान्यासम् एवाश्रयः || १८८ |
[वि० प० ]
हनेः । वृत्रघ्न इति । " अवमसंयोगात् ” ( २ |२| ५३) इत्यादिना हनेरकारलोपः । अलोप इति सिद्धे किमुपधाग्रहणेन ? सत्यम् । उपधामात्रस्यैव लोपे यथा स्यादित्याहउपधेत्यादि । तेन वृत्रहणमाचष्टे इति “इनि लिङ्गस्य” (३।२।१२) इत्यादिनाऽन्त्य - स्वरादिसमुदायलोपे न भवतीति ।। १८८ ।
[क० च०]
हनेः । ननु पूर्वसूत्रादीकारो वाशब्दश्च कथन्न वर्तते, नैवम्, उपधाग्रहणसामर्थ्यात् । अतो यावत् स्वरप्रत्ययेषु उपधालोपः संभवति, तावन्त एव निमित्तभूता इह गृह्यन्ते । अलोप इति कृते नैवं साध्यस्यासिद्धिरिति भावः । अलोप इत्यादि