________________
२५७
नामचतुष्टया याये द्वितीयः सखिपादः [दु० टी०]
अभ्य० । एवं दरिद्रत् । अभ्यस्तत्वादकारस्य लोपः । चकासत्, शासत् । परिशिष्टे पुंसि चरितार्थं वचनमिदम् । घुट्यनुषङ्गलोप एव नास्ति ।अन्तिरितीकार उच्चारणार्थः । स पुनघुटीति वचनात् शन्तृङेव गम्यते । न विद्यते नकारोऽस्येति विग्रहः । न पुनर्न विद्यतेऽकारोऽस्येति स्वरेऽक्षरविपर्यये सति "तुदभादिभ्यः" (२।२।३१) इति वचनाद् यस्मादन्तरङ्गत्वादसन्ध्यक्षरलोपे दीर्घात् परलोपश्च ईकारे परे नास्त्यकार इति भावः । ईकारविषयेऽन्तिरकाररहितो भवतीति चेत्, अनकारत्वे परभावेनैव सप्तमी चरितार्था दृष्टा । कथं विषयभावेन कल्पयितुं युज्यते कारशब्दस्तु वर्णात् प्रयुज्यते इति सूत्रार्थः । अन्तरदादेशे नलोपे वा कृते घुटि तु सिध्यति, यदिहानकारग्रहणं तदुत्तरार्थमेव ।। १८५ ।
[वि० प०]
अभ्यस्तात् । अनकारको भवतीति । न विद्यते नकारो यस्य इति अनकारकस्तत्र बहुव्रीहौ "शेषाद् वा" इति कप्रत्ययः । अभ्यस्तात् परोऽन्तिनकाररहितो भवतीत्यर्थः । न पुनर्न विद्यतेऽकारो यस्येति स्वरे अक्षरविपर्यये सति । तदा हि अकाररहितोऽन्तिरिति वाक्यार्थः स्यात् । तदा तु वक्ष्यमाणे "तुदभादिभ्य ईकारे" (२।२।३१) इत्यत्रानकारता नोपपद्येत । यतस्तुदभादेरवर्णान्तत्वाद् असन्ध्यक्षरविधौ अन्तरङ्गे दीर्घात् परलोपे कृते च पश्चाद् ईकार इति कथम् ईकारेऽकारलोपः स्यात् ।विषयविवक्षायां पूर्वमेवानकारतेति न वक्तव्यम् । नकारलोपपक्षे निमित्तत्वेनैव सप्तम्यघटनात् । ददत्, दधद् इति दाञ् - धाओः शन्तृङ् । अनुषङ्गलोपः, जुहोत्यादित्वाद् द्विवचनम् । “अभ्यस्तानामाकारस्य" (३।४।४२) इत्याकारलोपः ।। १८५)
[क० च०]
अभ्यस्तात् । विषयविवक्षायामिति । ननु विषयविवक्षया अकारलोपार्थम्, सूत्रमिदं किमर्थम् ? तुदादेरसन्ध्यक्षरविधित्वाद् भादिभ्यो दीर्घात् परलोपेनैव सिद्धत्वात् ? सत्यम् । अवर्णान्तानां मध्ये तुदभादिभ्य एवान्तिरकाररहितो भवति, नान्येभ्य इति । ‘पचन्ती, दीव्यन्ती' इत्यादौ नियमबलादसन्ध्यक्षरविधिर्दीघात् परलोपविधिश्च न भवतीति कुलचन्द्रः। वस्तुतस्तु प्राप्ते विभाषया पक्षे लोपनिवृत्तिरेव सूत्रफलमिति किं दूरावधारणेनेति महान्तः ।। १८५ |