________________
१८०
कातन्त्रव्याकरणम्
[दु० वृ०]
संख्यायाः षकारनकारान्तायाश्चामि परे नुरागमो भवति । षण्णाम्, पञ्चानाम् । अन्तग्रहणाद् भूतपूर्वनान्ताया अपि - अष्टानाम् । संख्याया इति किम् ? विप्रुषाम्, यज्वनाम् ।। १५४।
[दु० टी०]
संख्या० | संख्यायते ऽनयेति संख्या । "आतश्चोपसर्गे" (४|५|८४ ) इत्यङ् । लोकोफ्चारादेकद्वित्रिप्रभृतीनामियं संज्ञा सिद्धा । षश्च नश्च ष्णौ तावन्तौ यस्याः सा ष्णान्ता, तस्या इति । ' षष्, पञ्चन्' आभ्याम् आम्, अनेन नुरागमः । एकत्र "हशषछान्तेजादीनां ड: " (२।३।४६), " षडो जो ने, तवर्गश्चटवर्गयोगे" (२।४।४३, ४६) इत्यादिना णत्वम् | अन्यत्र " नान्तस्य चोपधायाः " ( २।२।१६ ) इति दीर्घः । “लिङ्गान्तनकारस्य ” (२।३।५६) इति नलोपः । 'सङ्ख्यायाः ष्णः' इति सिद्धे 'येन विधिस्तदन्तस्य' (कात० प० ३) इति षकारनकारान्ताया एव गम्यते इत्याहअन्तग्रहणादित्यादि । अन्यथा 'अष्टानाम्' इति “अष्टनः सर्वासु” (२।३।२०) इत्यात्वे कृते नान्तत्वाभावान्वागमो न स्यादिति । अथ 'आदेशादागमो विधिर्बलबानू' ( है ० प० पा० ५०) इति, नैवम् । 'नित्यानित्ययोर्नित्यो विधिर्बलवान्' (कात० प० ४९ ) इति नित्यमात्वमेव स्यात् । तथा 'शतानि, सहस्राणि ' इत्युपदेशनान्तार्थमित्येके, तेन जस्शसोर्लुक् न भवति ।
तदयुक्तम्, सन्निपातलक्षणविधेरनिमित्तत्वात् । 'प्रियाः षड् येषाम्, प्रियाः पञ्च येषाम्' इति विग्रहे ‘प्रियषषाम्, प्रियपञ्ञाम्' इति भवितव्यम, संख्याया गौणत्वात् । ननु “संख्यायाः ष्णान्तायाः” (२। १ । ७५) सम्बन्धिन्यामीति विशेषणे किमन्तग्रहणेनेति, नैवम् । श्रुतत्वात् संख्यायाः ष्णान्ताया एवेति अष्टानामिति न सिध्यतीति । “चतुरः संख्यायाः ष्णान्तायाः” इत्येकयोगे सति उत्तरत्र जस्शसोर्लुक् स्यात् - चत्वारः, चतुरः पश्यन्तीति ।। १५४ ।
[वि० प० ]
सङ्ख्यायाः । षश्च नश्चेति द्वन्द्वे “ तवर्गस्य षाट् टवर्गाट् टवर्ग:” (३|८|५) इति नस्य णत्वम् । ष्णावन्तौ यस्याः सा ष्णान्ता संख्या तस्या इति । षण्णामिति ।