________________
कातन्त्रव्याकरणम्
अकारप्रश्लेषार्थं यथान्यासमिति अश्च आश्च आ । तेन बहुव्रीहौ "मातुरत् पुत्रस्तुतौ” इति न वक्तव्यम् । अत एव वचनाद् ऋदन्तलक्षणः को न भवति, बहुलार्थत्वाद् वा पुत्रप्रशंसायां गम्यमानायां मातृशब्दस्यान्तोऽकारो भवति । अत्र संभावितोत्कर्षया श्लाघ्यया तत्पुत्रव्यपदेशयोग्यया मात्रा पुत्रस्य प्रशंसा भवति ।
१७०
गार्गी माता अस्येति गार्गीमातृकस्तस्य संबोधने 'हे गार्गीमात' तथा 'हे वात्सीमात' । मातुरिति किम् ? गार्ग्यपितृक । पुत्रस्येति किम् ? हे गार्गीमातृके वत्से ! स्तुताविति किम् ? अरे दासीमातृक । अत्रासंभावितोत्कर्षया श्लाघ्यया मात्रा पुत्रस्य निन्दा, प्रत्युदाहरणे कप्रत्ययः स्यात् ।। १४९ ।
[वि० प० ]
आ च । 'विशेषातिदिष्टः प्रकृतं न बाधते' (कात० प० १९) इति सामान्यम् ऋदन्तमेवानुवर्तते, न त्वनन्तराः स्वम्नादय इत्याह - ऋदन्तस्येति । आर् आ चेति । अधिकृतस्तवद् आर् न भवति “आ सौ सिलोपश्च" (२।१।६४) इत्याकारोऽपि न भवतीत्यर्थः । " घुटि च " (२|१ | ६७ ) इत्यरेव प्रवर्तते, बाधकाभावादित्याह - अर्थादरेवेति ।। १४९ ।
[क० च०]
आ च न। अस्य वृत्तौ आश्च न भवतीति साम्प्रदायिकाः पाठं कुर्वते । अधिकृतस्तावद् आर् न भवतीति । एतेन उक्तसमुच्चये चकारः । ननु चकारासम्बन्धतया आरादेशस्य प्राधान्यात् चकारसंबन्धतया आकारस्य गौणत्वेन यत्रारादेशस्य निषेध उपपद्यते तत्रैव प्रधानानुयायितया आकारस्यापि निषेधः स्यात् । यथा - 'हे कर्तः, हे स्वसः' इत्यादौ, न तु 'हे पित:' इत्यत्र, सत्यम् | वाक्यानुरोधे तु प्राधान्यगौणत्वविचारः, कार्ये तु व्याप्तिन्यायादुभयमेव प्राधान्येन विधीयते इति । अत एव टीकायामपि शङ्केत इत्युक्तमिति पञ्जीकृतो हृदयम्, तन्न बुद्ध्वा कुलचन्द्रेण दूषिर्तामिति । यत्तु टीकायामनुक्तमपि समुच्चिन्वन् अधिकृतमेव समुच्चिनोतीत्युक्तम्, तत्रोक्तसमुच्चये तावच्चकारः सम्भवतीत्यपेरर्थः ।। १४९ ।
[समीक्षा]
' हे कर्तृ + सि, हे स्वसृ + सि' इस अवस्था में कातन्त्रकार के अनुसार 'ऋ' को 'अर्' आदेश होने पर 'हे कर्तः ! हे स्वसः ! रूप निष्पन्न होता है, जबकि