SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये प्रथमो धातुपादः • १४४. अग्निवच्छसि [२।१।६५ ] १५७ [ सूत्रार्थ] द्वितीयाविभक्ति- बहुवचन 'शस्' प्रत्यय के परवर्ती होने पर ऋकारान्त लिङ्ग: प्रातिपदिक को अग्निवद्भाव होता है || १४४ । = [दु०वृ०] ऋदन्तस्य लिङ्ग्ङ्गस्याग्निवद् भवति शसि परे । पितॄन् । तत्रास्त्रियामिति प्रतिषेधात् - मातृः ।। १४४ । [दु० टी०] " अग्नि० । 'अर्थवशाद् विभक्तिविपरिणामः' (कात० प० २५) इत्याह- ऋदन्तस्येति । बहवोऽतिदेशाः संभवन्तीति तत्र ब्राह्मणवत् क्षत्रिये प्रवर्तितव्यम् इति । यथा निमित्तातिदेशस्तथा नेह इकारोकारावग्नेर्निमित्तं तदन्तस्य कथं भवतीति । न ह्यनिमित्तम् अन्य एव वचनशतैरपि प्रवर्तयितुं शक्यते । रूपातिदेशोऽपि नैव । तदा इदुताविति विदध्यात् । व्यपदेशातिदेशोऽपि नैव । व्यपदेश: संज्ञा चेत्, किं वत्करणेन ? अथ विधिप्रकरणत्वाद् वद्ग्रहणमेवास्ताम्, तर्हि व्यपदेशातिदेशः शास्त्रातिदेशोऽप्यविरुद्ध एव । ऋदन्तस्याग्नेः शास्त्रं भवति । तत्पुनः “ शसोऽकारः सश्च नोऽस्त्रियाम् ” (२।१ । ५२) इति कार्यातिदेशस्तु न्याय्य एव सर्वातिदेशानां मध्ये प्रधानं साध्यनिष्ठत्वाद् ऋदन्तस्याग्नेरिव कार्यं भवतीत्यर्थः । तेन शसोऽकारः पूर्वस्वरमापद्यते, सश्च नो भवत्यस्त्रियामिति अग्निमाश्रित्य यत् प्रवर्तते तदग्नेः कार्यं भवति । अन्यः पुनराह - पञ्चम्यन्ताद् वतिरयमग्नेरिव ऋदन्ताच्छसि विषये कार्यम् इति तत् पुनः शस एव षष्ठीसप्तम्योरर्थं प्रत्यभेदाद् वद्ग्रहणं कृतम् अभेदविवक्षा गरीयसीति । " शसोऽकारः सश्च नोऽस्त्रियाम्" ( २।१।५२ ) । तत ऋतश्चेति क्रियमाणे सिध्यति । चकार उत्तरार्थोऽग्नेरनुकर्षको भविष्यतीति । अन्यथा पृथग्वचनमनर्थकमिति नैवम् । प्रकरणभेदः स्यादिति ॥ १४४ ॥ [वि० प० ] अग्निः । अग्निवद् भवतीति । अग्निरिव कार्यम् ऋदन्तस्य शसि परे भवतीत्यर्थः । सत्यपि अतिदेशान्तरे कार्यातिदेश एवायं तन्निष्ठत्वात् प्रवृत्तेः । तेन शसोऽकारः
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy