________________
कातन्त्रव्याकरणम्
[दु० टी०]
सि० । ननु अलोपात् श्रूयते चकारः स कथं प्रधानतया न वाक्यार्थः इति ङसिङसोरकारलोपो भवति। इरेच्च उरोच्च भवति, सम्बन्धस्य प्रयोक्तुरायत्तत्वात् । यदि सिङसोः परयोः इरेद् भवति उरोद् भवति श्रुतयोरलोपश्चेति सुखार्थः स्यात् तदाऽन्वाचयशिष्टोऽयं चकारः शक्यते । ततश्च 'बुद्ध्या, धेन्वा' इत्यत्राप्येत्वमोत्वं च स्यात्, नदीवद्भावेनाबाधितत्वात् । यथासङ्ख्यं तु न भवति, इकारस्य ङसिङस्भ्यां संबन्धाद् उकारस्य चेति वैषम्यात् । ततोऽयमेवार्थः सूत्रार्थेनाविर्भावित इति । ननु 'असोऽस्य लोपश्च' इति कथन्न कुर्यात्, विशेषङकारादीननुबन्धानुत्सृज्य अस्मात्रमिह गृह्यते जसि शसि च विशेषविधानाद् ङसिङसोग्रहणमेवावसीयते ? सत्यम् । उसि
सोरिति सुखप्रतिपत्त्यर्थमेव 'एकानुबन्धग्रहणे न बयनुबन्धकस्य' (व्या० परि० ४६) इति 'उसिङसोरुपादानम् ।। १३७।
[वि०प०]
असि०। यद्यपि अलोपशब्दात् श्रुतश्चकारस्तथापि विशेषणविशेष्यभावस्य प्रयोक्तरायत्तत्वादेदोद्भ्यां सह संबध्यते इत्यत आह- इरेच्च उरोच्चेति । यदि पुनर्यथाश्रुतमेव संबन्धः स्यात् तदा उसिङसोः परयोरिरेद् भवति, उरोद् भवति । अलोपश्च तयोरेव श्रुतत्वात् तदा चकारस्यान्वाचयशिष्टत्वाशङ्कायामकारलोपमन्तरेणापि प्रधानवाक्यनिर्दिष्टमेत्वमोत्वं च स्यात् । 'बुद्ध्याः, धेन्वाः' इति नदीवद्भावोऽप्यग्निकार्य न बाधते इत्युक्तमेव । ततो उसिङसोरिकारोकाराभ्यां सह सम्बन्धो न विवक्षितः, अपि तु अकारेण।ततो वैषम्यसंबन्धाद् यथासंख्यमपि नास्तीति । अत एव एकैकस्योदाहरणद्वयं प्रत्ययभेदाद् दर्शयति - अग्नेः, अग्नेः । धेनोः, धेनोरिति । अत एव सूत्रार्थेनावि वितं उसिङसोरकारस्येति । अथवा उसिङस्भ्यामिकारोकारौ क्रमशः सम्बध्यते । ततोऽपि वैषम्यम् - ङसिङसोरलोपो भवति, इरेच्च भवति । ङसिङसोरलोपो भवति, उरोच्च | अत एव प्रत्येकं चकारः सम्बध्यते इति ।। १३७।
[क० च०]
उसि० । अन्वाचयशिष्टत्वाशङ्कायामिति शङ्कामात्रम्, न तु परमार्थतः, संनियोगशिष्टत्वसंभवेऽन्वाचयशिष्टत्वस्यान्याय्यत्वात् । अतस्तर्हि ङसिङसोरप्यकारद्वयं