________________
१३६
कातन्त्रव्याकरणम्
१३१. शसोऽकारः सश्च नोऽस्त्रियाम् [ २/१/५२]
[सूत्रार्थ]
अग्निसंज्ञक इकार उकार से परवर्ती द्वितीयाविभक्ति- बहुवचन 'शस्’
प्रत्ययस्थ अकार पूर्ववर्ती स्वर को प्राप्त होता है तथा अन्तिम वर्ण सकार के स्थान में नकारादेश भी होता है ।। १३१ |
-
[दु० वृ०]
अग्नेः परः शसोऽकारः पूर्वस्वरमापद्यते, सश्च नो भवत्यस्त्रियाम् | अग्नीन्, पटून्। अस्त्रियामिति किम् ? बुद्धीः, धेनूः ॥१३१ |
[दु० टी० ]
I
शसो० । शसश्चेति षष्ठी प्रथमा वा यद्युकार उच्चारणार्थः स्यान्न इति अस्वर एवाभिधीयते, अकारस्योच्चारणार्थत्वात् । 'जातीः पुष्पाणि' इति पुष्पेऽपि वर्तमानो जातिशब्दः स्त्रियामेव वर्तते । अस्त्रियामिति सन्निहितस्य कार्यस्य प्रतिषेधो यस्माद् वाक्यार्थद्वयम् – 'शसोऽकारः पूर्वमापद्यते इत्येको वाक्यार्थः । 'सश्च नोऽस्त्रियाम्' इति द्वितीयः । स्त्रीलिङ्ग्ङ्गविशिष्टाल्लिङ्गात् परस्य सस्य नो न भवतीत्यर्थः । " बह्वल्पार्थात् कारकाच्छस् मङ्गले गम्यमाने " ( २|६ । ४० - ८ तमादिगणे ) इति कारकत्वाच्छस्प्रत्ययः । 'बहुशः, कोटिशः' इत्यत्र न भवति, स्यादिसम्बन्धात् ।
ननु ‘शस्' इति प्रथमैवास्ताम् । शस् पूर्वमापद्यते सश्च नो भवतीति वचनात् । अकार एव पूर्वं लभ्यते । शसिति प्रथमान्तोऽपि सश्चेति सम्बन्धषष्ठीतया विपरिणमते इति । नैवम्, यदा 'अस्त्रियाम्' इति प्रतिषेधः स्यात् तदा सर्व एव शस् पूर्वमापद्यते । अथ ‘शसः' इति षष्ठ्या निर्दिश्यते इति चेत्, सश्चेति चकारः शसोऽनुक्तमप्यवयवं समुच्चिनोति । शसोऽवयवः पूर्वमापद्यते सश्च नो भवतीति प्रतिपत्तिरियं गरीयसीति । नपुंसके हि परत्वाच्छिरादेशे इति अस्त्रियामित्युच्यते । यद्येवं पुंसीति किमिति न विदध्यात् । नैवम्, वक्ष्यमाणे हि योगे नपुंसकेऽपीष्यते अमुना कुलेनेति । तस्माद् अस्त्रियाम् इति विधेयम् ।। १३१ ।
-