________________
१३४
कातन्त्रव्याकर
[दु० वृ०]
अग्निसंज्ञकात् परोऽमोऽकारो लोपमापद्यते । अग्निम्, पटुम् ।। १२९ । [क० च०]
अग्नेः । ननु अम्ग्रहणं किमर्थम्, अग्नेरकार इत्यास्ताम् । जसादीनां तु अकारलोपो न भविष्यति यस्मात् तेषु स्वरादेशत्वात् “ इरेदुरोञ्जसि” (२1१।५५) इत्यादिना एत्वादय एव सन्ति बाधका इति । सत्यम्, अम्ग्रहणं लाक्षणिकाग्नेः परिग्रहार्थम् । तेन ‘अतिचित्रगुम्' इत्यत्रापि अमोऽकारलोप इति कश्चित् । तन्न । वर्णविधौ लाक्षणिकपरिभाषा नास्तीति ज्ञापितत्वात् । तथाहि - 'समस्थित' इत्यत्र “स्थादोरिरयतन्यामात्मने” (३।५।२९) इत्यनेन आकारस्येकारे कृते लाक्षणिकत्वादेव गुणो न भविष्यति । यत्तु गुणनिषेधार्थं "स्वादोश्च" इति सूत्रं तद् बोधयति वर्णविधौ लाक्षणिकपरिभाषा नास्तीति । तस्माद् अग्नेरमोऽकारो लोपमापद्यतेऽग्न्यन्तस्य वा लोपमापद्यते इति शङ्कानिरासार्थमम्ग्रहणम् ।। १२९ ।
-
[समीक्षा]
‘अग्नि + अम्, पटु + अम्’ इस अवस्था में अग्निसंज्ञक 'अग्नि, पटु' शब्दों से परवर्ती अमूप्रत्यय के अकार का लोप करके कातन्त्रकार 'अग्निम्, पटुम्' रूप सिद्ध करते हैं । पाणिनि ने यहाँ पूर्वरूप का विधान किया है - " अमि पूर्व : " (अ० ६।१।१०७)। वस्तुतः अकार का लोप न होने के कारण कातन्त्रकार द्वारा किया गया अकार का लोपविधान ही समीचीन है ।
[रूपसिद्धि]
१ . अग्निम् । अग्नि + अम् । " इदुदग्निः” (२।१।८) से 'अग्नि' शब्दघटित इकार की अग्निसंज्ञा तथा प्रकृत सूत्र द्वारा द्वितीयाविभक्ति एकवचन 'अम्' प्रत्यय के अकार का लोप |
-
२ . पटुम् । पटु + अम् । “इदुदग्निः " (२।१।८) से पटुशब्दघटित उकार की अग्निसंज्ञा तथा उससे परवर्ती द्वितीयाविभक्ति एकवचन 'अम्' प्रत्यय के अकार का लोप ।। १२९ ।