________________
१३२
कातन्त्रष्याकरणम्
१२८. व्यञ्जनाच्च [२।१।४९]
[सूत्रार्थ]
व्यञ्जनसंज्ञक वर्ण से परवर्ती प्रथमाविभक्ति - एकवचन 'सि' प्रत्यय का लोप होता है ।।१२८ ।
[दु० वृ०]
व्यञ्जनसंज्ञकात् परः सिर्लोपमापद्यते । बाक्, तडित् । संयोगान्तलोपे सिद्धं चेन्नादेर्धटो लोपः स्यात् । लिङ्गं चानुवर्तते ॥ १२८ ॥
[दु० टी०]
उक्तसमुच्चयमात्रे ।। १२८ ।
चकारः
[वि० प० ]
व्यञ्जन० । लिङ्गं चानुवर्तते इति मतान्तरेणोक्तम् । अस्य तु मते लिङ्गप्रकरणत्वादेव लिङ्गान्तस्य तत्र लोप इति प्रतिपत्तव्यः । न ह्यनेन लिङ्गाधिकार आदृत इति ।। १२८ ।
[क० च०]
व्यञ्जन० । ननु सूत्रमिदं किमर्थम्, 'वाक् - तडिद्' इत्यादिषु विभक्तिसकारस्योपरि परगमने सति संयोगान्तलोपेनैव सिध्यति । एतदेवाह - संयोगान्त इत्यादि वृत्तिः । ननु संयोगान्तलोपेन सिध्यतीति कथमिदमुच्यते यावता 'राजा, सखा' इत्यादौ संयोगान्तलोपे सति न संयोगान्तावित्यादिनाऽलुप्तवद्भावात् लिङ्गान्तनकारलोपो न स्यात् ? सत्यम्, ‘न संयोगान्तौ ' इति लिङ्ग्ङ्गस्य विशेषणत्वात् । अत्र तु विभक्तिसंबन्धी संयोगान्त इति कुलचन्द्रः। तन्न, “ लिङ्गान्तनकारस्य ” ( २ । ३ । ५६) इत्यत्र पुनर्लिङ्गग्रहणम् उत्तरत्र सामान्यार्थमिति वृत्तौ वक्ष्यमाणत्वात् । तेन " न संयोगान्तौ ० " ( २ । ३।५८) इत्यत्र सामान्यसंयोगान्तलोपेऽप्यलुप्तवद्भाव इति ।
बस्तुतस्तु कतमोऽयं (कथमयम् ) पूर्वपक्षः संयोगान्तलोपस्यालुप्तवद्भावेऽपि व्यञ्जनमाश्रित्य नकारलोपो बाधकाभावादिति महान्तः सिद्धान्तयन्ति । नन्वादेर्धुटो लोपो भवन् नियमेनैव भवति । तथा च वक्ष्यति - "स्कोऽट्ट - अद्ड् - श्च्युतामादेः" इत्यतो