________________
कातनव्याकरणम्
२. नदीः। नदी + शस् । "ईदूतु स्व्याख्यो नदी" (२।१।९) से ईकार की नदी संज्ञा, प्रकृत सूत्र से शस् प्रत्यय के आदि अवयव अकार का लोप तथा "रफसोविसर्जनीयः" (२।३।६३) से स् को विसगदिश |
३-४. वधूमू । वधू+ अम् । वधूः । वधू + शस् । पूर्ववत् नदीसंज्ञा तथा ‘अम्शस्' प्रत्ययों के आदि अवयव अकार का लोप ।। १२६ ।
१२७. ईकारान्तात् सिः [२।१।४८] [सूत्रा]
नदीसंज्ञक ईकारान्त शब्द से परवर्ती प्रथमाविभक्ति- एकवचन 'सि' प्रत्यय का लोप होता है ।। १२७।
[दु० वृ०]
नदीसंज्ञकेकारान्तात् परः सिर्लोपमापद्यते । नदी, मही । ईकारोऽन्तो यस्मादिति किम् ? लक्ष्मीः ।। १२७ ।
[दु० टी०]
ईकारा० । अधिकृतया नद्या ईकारो विशिष्यते । नदीसंज्ञक ईकारोऽन्तः समीपो यस्य लिङ्गस्य तदिदमीकारान्तं लिङ्गमिह प्रकरणबलादधिकृतं वा कैश्चिद् इति लक्ष्मीरित्यत्र कथं सिलोपप्रसङ्गः, यतो "लरीर्मोऽन्तश्च" (उ० ३।३६) इत्युणादौ लक्षेरीप्रत्ययेऽस्य च मोऽन्त इति । अतद्गुणेऽपि बहुव्रीहौ वचनादेकवर्णव्यवधानेऽपि स्यात् । अथ अव्युत्पन्न एव लक्ष्मीशब्दस्तदापि विहितविशेषणमन्तग्रहणबलात् । यथा नदीति नदशब्दादीप्रत्ययो विहितस्तथा नायमिति उभयपक्षं चालोच्यार्थविवरणाय पञ्चम्या वाक्यार्थमाह । ननु तन्त्रयतेरौणादिक ईरस्ति, कथं तन्त्रीयं वीणा इति, नैवम् । अजन्ताद् अलन्ताद् वा ईप्रत्यय इति । कथं बहुश्रेयसी युवा । अयमपि लिङ्गाधिकारो गौणोऽत्र श्रेयसीशब्दो न श्रेयःशब्द इति प्रपूर्वात् श्रन्सेः वयम्, तत ईयन्सुः, प्रशस्यस्य च श्रः । बहवः श्रेयस्योऽस्य सन्तीति विग्रहे नदीलक्षणः कप्रत्ययः, उपसर्जनलक्षणश्च ह्रस्व इह न दृश्यते ।। १२७।