SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १२२ कातन्वव्याकरणम् षष्ठीविपरिणामिनां यैप्रभृतीनामादिर्भविष्यति किं सहग्रहणेन, नैवम् | डवतामेवानुवृत्तिः स्यात् सुरागमस्तु यैप्रभृतीनां बाधकः स्यात् । 'येन नाप्राप्तौ यो विधिरारभ्यते स तस्य बाधकः' (व्या० परि० ४२) इति । उक्तं च, कार्यिणा हन्यते कार्य कार्य कार्येण हन्यते । निमित्तं तु निमित्तेन तच्छेषमनुवर्तते ॥ सहग्रहणेन तु विशेषणमिदं यैप्रभृतीनामेव साध्यत्वात् । वस्तुतः पुनः सुरागमो ह्रस्वपूर्वश्च साध्य इति । ह्रस्वः पूर्वो येभ्य इति विग्रहे पूर्वो दी| ह्रस्वो भवति, ह्रस्वतया विवर्तते इत्यर्थः । तदेतल्लोकोपचारात्। लोके हि दीर्घ एव ह्रस्वो भवति, ह्रस्व एव दीर्घो भवति । यदि पुनरत्पूर्वाश्चेति विदध्यात् तदा पूर्वस्मिन् देशे अकारो नियुज्यते इति गम्यते दीर्घात् परलोपोऽपि न भवति, वचनादिति । तुशब्द इत्यादि। तुशब्दोऽयं पुनरर्थे न प्रयोजयतीति निवृत्तौ प्रवर्तितव्यम्, तर्हि परयोगे यैप्रभृतीनामेव प्राप्ते विभाषा स्यात्, नैवम् । श्रद्धाप्रकरणमपेक्ष्य वर्तते, अव्ययानामनेकार्थत्वाद् इति ।। १२२ । [वि० प०] सर्वनाम्नः। ससव इति । सह सुना वर्तन्ते इति विग्रहे सपरस्वराया इत्यादिनिर्देशाद् बहुव्रीहौ सहस्य सभावः । ह्रस्वपूर्वाश्चेति ह्रस्वः पूर्वो येभ्य इति विग्रहः । उदनुबन्धः परादित्वार्थ इति । अन्यथा प्रकृतिभक्तत्वे सकारस्य व्यञ्जने विसर्जनीयः स्यादित्यर्थः । तुशब्द इत्यादि । सुश्चासावागमश्चेति स्वागमः | तस्याधिकारनिवृत्तिरर्थः प्रयोजनमस्येति विग्रहः, स चाव्ययत्वात् श्रद्धाप्रकरणत्वादूर्ध्वं निवर्तयति । । १२२ । [क० च०] सर्वनाम्नः।ससव इति ओकारो नाशकनीयः,व्याख्यानादोकारापेक्षया उकारकल्पने लघुत्वात् । ननु यै - प्रभृतीननादृत्य ह्रस्वस्वागमयोर्विधाने वाक्यभेदः स्यात्, विशिष्टे एक एव विधियुक्तः । विधाने तु सर्वनाम्नः श्रद्धायाः पराणि ङवन्ति वचनानि ह्रस्वपूर्वाः स्वागमयैप्रभृतयो भवन्तीत्येव एकक्रियैव । वाक्यभेद इति । अत एव वृत्तौ ङवन्ति वचनानि इति पाठोऽप्यस्ति युक्तश्च उभयविशिष्टातिरिक्तविधिरिति । अत एव 'उपसद्मिश्चरित्वा मासमेकं जुहुयाद्' इत्यत्र विशिष्टकर्मविधिं विशिष्टकर्मान्तर
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy