SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२० कातन्त्रव्याकरणम् [दु० वृ०] श्रद्धायाः पराणि उवन्ति वचनानि 'यै - यास् - यास् - याम्' इति यथासङ्ख्यं भवन्ति । श्रद्धायै, श्रद्धायाः, श्रद्धायाः, श्रद्धायाम्। मालाये, मालायाः, मालायाः, मालायाम् ।।१२१ । [दु० टी०] वन्ति । डकारो विद्यते येषां तानिङवन्ति ।संसङ्गे वन्तुरयंडकारस्यानुबन्धत्वात् । ननूच्चरितप्रध्वंसिनो ह्यनुबन्धा इत्यादेशकाले उकारस्याभावाद् वर्तमानत्वं नास्ति तत्कथमिह वन्तुरिति ? सत्यम् । वचनाद् भूतपूर्ववदुपचार इति न विरुध्यते । 'यथासङ्ख्यमनुदेशः समानाम्' (कात० प० १५) इति, अनुदेशः पश्चादुच्चारणम्, सङ्ख्यानं संख्या । उच्चारणमात्रमुच्यते । समानानामनुदेशे उच्चारणानतिक्रमेण भवतीत्यर्थः । तत्र शब्दसाम्यमिह न संभवति । यथा “द्वितीयचतुर्थयोः प्रथमतृतीयो" (३।३।११) इत्यर्थसाम्यं वन्तीति प्रतिपत्तव्यम् । अन्यथा द्विर्यास्करणमनर्थकं स्यात् ।। १२१ । [वि० प०] म्वन्ति । यथासङ्ख्यमिति । तत्पुनर्द्विविधम् - शब्दकृतम् अर्थकृतं च। तत्र शब्दकृतम् - यत्र शब्दानां समानो निर्देशः, यथा “द्वितीयचतुर्थयोः प्रथमतृतीयो" (३।३।११) इति । अत्र तु ङकारो विद्यते येषां तानि वन्तीति एकेनैव ङवच्छब्देन पारिशेष्यात् डे - इसि - ङस् - डीनां चतुर्णामेवार्थानामभिधीयमानत्वाच्चतुर्भिरादेशैः सहार्थकृतं यथासंख्यं प्रतिपत्तव्यम् । अत एव द्विर्यास्करणमर्थवद् भवतीति भावः ।। १२१ । [समीक्षा] 'श्रद्धा + डे, श्रद्धा + ङसि, श्रद्धा + ङस्, श्रद्धा + ङि' इस अवस्था में यथाक्रम डे को यै, ङसि को यास्, ङस् को यास् तथा ङि को याम् आदेश करके 'श्रद्धायै, श्रद्धायाः, श्रद्धायाः, श्रद्धायाम्' शब्दरूप निष्पन्न किए गए हैं । पाणिनि एतदर्थ याट् आगम, वृद्धि और दीर्घ आदेश करते हैं – “याडापः, वृद्धिरेचि, अकः सवर्णे दीर्घः" (अ० ७।३।११३; ६।१।८८, १०१) । इस प्रकार पाणिनि की प्रक्रिया में गौरव तथा कातन्त्रीय प्रक्रिया में लाघव स्पष्ट है |
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy