________________
नामचतुष्टयाप्याये प्रथमो धातुपादः २. हे अक्क ! हे अक्का + सि । पूर्ववत् अक्का - शब्दघटित आकार की श्रद्धासंज्ञा, ह्रस्व, सि की संबुद्धिसंज्ञा तथा सि का लोप ।। ११९ ।
१२०. औरिम् [२।१।४१] [सूत्रार्थ श्रद्धासंज्ञक आकार से परवर्ती औ का 'इ' आदेश होता है ।। १२० । [दु० वृ०]
श्रद्धायाः पर औरिमापद्यते । श्रद्धे, माले । दीर्घः किम् ? जरसी इति केचित् ।। १२०।
[दु० टी०]
औरिम् । प्रकृतत्वादिह श्रद्धामात्रमनुवर्तते । ह्रस्व एव पाठो यस्मात् नैवं जरसी इति सन्निपातत्वाद् दीर्घः । पुनरुत्तरार्थश्चेति परदर्शनार्थम् ।। १२० ।
[वि० प०]
औरिम् । कैश्चित् कातन्त्रैकदेशीयैर्दीर्घः पठ्यते, तन्मतमाशङ्कमान आह - दीर्घः किमिति । अन्यथा एत्वे सति ह्रस्वे दीर्घ च विशेषाभावान्नात्र दीर्घस्य फलमित्यर्थः । अतस्तबलाच्च सन्निपातलक्षणपरिभाषापि बाध्यते, अस्य पुनर्जरसी इति प्रयोगो न संमतः, तेन ह्रस्व एव पाठः । सन्निपातलक्षणत्वात् जरसादेशो न भवतीति ।। १२० ।
[क० च०]
औरिम् । कैश्चित् कातन्त्रैकदेशीयैरिति पनी । कातन्त्रशब्दोऽत्र सकलवैयाकरणपरः। कातन्त्रं ये विदन्ति सूरय इत्यर्थेऽण् प्रत्ययविधानात् तदेकदेशीयैर्वररुचिप्रभृतिमिरित्यर्थः। अन्यथा यथाश्रुतार्थे व्याकरणैकदेशाङ्गरित्यर्थः स्यात् । तद्बलाद् दीर्घबलाद् इत्यर्थः।
ननु तबलात् सन्निपातलक्षणबाधा कथं कल्प्यते तबलादेवाग्रतः प्रवर्तमानत्वात् सर्वथा जरस्बाधया नित्यं जरे इत्येव स्यादिति कथं न कल्प्यते । अन्यथा परत्वादन्तरङ्गत्वाच्चाग्रतो जरसादेश एव स्यात् ? सत्यम् । दीर्घस्य एत्वद्वारेणैव वैफल्यदृष्टत्वात् सार्थकत्वकल्पनेऽपि एत्वबाधाद्वारेणैव युज्यते । एत्वबाधापि तदैव
चयः।