________________
कातन्त्रव्याकरणम्
षष्ठीयम् | यैन बहुव्रीहिणा दिश उच्यन्ते स दिशां बहुव्रीहिरित्यर्थः । दक्षिणैव पूर्वा यस्या मुग्धाया इति विग्रहः । अथवा 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (का०प० पा० ७५) इति । कः प्रतिपदोक्तः, योऽर्थायातैर्दिग्वाचकैः समासः “ विदिक् तथा” (२ । ५ । १०) इति । "बहुव्रीहौ” (२।१।३५) इति किं समास एव वर्तिष्यते इति, तर्हि द्वन्द्वेऽपि विभाषा स्यात् 'दक्षिणोत्तरपूर्वाणाम्' । नैवम्, प्रतिपदोक्तस्यैव ग्रहणात् । सत्यम् । बहुव्रीहिरेवानुवर्त्यतां सुखप्रतिपत्त्यर्थम्, किमेकविभक्तियुक्तसमासानुवर्तनेनेति ।
१०८
ननु दक्षिणावयवत्वाद् दक्षिणा, पूर्वावयवत्वाच्च पूर्वा । दक्षिणा चासौ पूर्वा चेति कर्मधारये ‘दक्षिणपूर्वस्यै' इति भविष्यति । अन्यपदार्थे तूपसर्जनत्वात् सर्वनामत्वं नास्ति 'दक्षिणपूर्वायै' किमनेन, " बिदिकू तथा " ( २/५/१० ) इत्यनेन च ? सत्यम् । प्रतिपत्तिगौरवनिरासार्थमेव अप्राप्ते विभाषेयमुच्यते । । ११५ ।
[वि० प० ]
दिशाम्० । उत्तरपूर्वस्या इति । उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालमिति विग्रहः । इहान्तरालं दिगुच्यते । विदिशोऽपि दिश उच्यन्ते, उपचारात् ।‘सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' (जै० प० वृ० १०३ ) इति पूर्वपदस्य पुंवद्भावः । " सर्वनाम्नस्तु ससवो ह्रस्वपूर्वाश्च” (२ । १ । ४३) इति पक्षे सार्वनामिकं कार्यमिह न भवति । दक्षिणपूर्वाया इति । दक्षिणैव पूर्वा यस्या मुग्धायाः । सञ्जातदिङ्मोहा स्त्री कथ्यते न दिगिति । दिशामिति वाच्यवाचकलक्षणसंबन्धे षष्ठी । येन बहुव्रीहिणा दिश उच्यन्ते, स दिशां बहुव्रीहिः, न तु दिग्वाचकानां शब्दानां यो बहुव्रीहिरिति । अथवा 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव बहुव्रीहेर्ग्रहणम्' इति, न तु लाक्षणिकस्येति । कः पुनः प्रतिपदोक्तबहुव्रीहिरिति चेत्, योऽर्थायातैर्दिग्वाचकैः शब्दैः समासे सति 'विदिक् तथा" (२।५।१०) इत्यनेन विहितः । तथा च प्रतिपदोक्तबहुव्रीह्यर्थं तदिति वक्ष्यति । अयं तु " स्यातां यदि पदे द्वे तु” (२।५।९) इत्यादिनैव बहुव्रीहिः ।। ११५ ।
[क० च०]
दिशाम्० । उत्तरपूर्वस्या इति । नन्वन्तरालपदस्यान्तरङ्गस्य नपुंसकत्वात् कथं समासस्य स्त्रीत्ववृत्तिरित्याह - इहेत्यादि । ननु दिशां बहुव्रीहौ विधीयमानं कार्यं कथं