________________
नामचतुष्टयाध्याये प्रथमो पातुपादः इति वचनम् । अथवा अधिकारमपेक्ष्य विशेषातिदिष्टत्वमिति । यथा द्विजभोजने दध्यधिकृतं कथंचित् तक्रं दीयते, पुनरपरेयुः प्रकृतमेव दधि दीयते न विशिष्टं तक्रमित्याह - अकारान्तादिति किम् ? सर्वा इति । सर्वग्रहणं 'परस्यादेः' (भोज० प० सू०१६) इत्यादेर्मा भूत् । नन्वियं शार्ववर्मिक न प्रयोजनवती किं चाभेदात्तथावर्णान्तस्यापि न भवति । जस् इकाररूपेण विपरिणमत इति तर्हि प्रतिपत्तिगौरवनिरासार्थमेव सर्वग्रहणम् । केनचिद् दीर्घमादिशता “दीर्घात्, पदान्ताद् वा" (अ०६।१।७५, ७६) इति छस्य द्विर्भावः प्रयोजनमुच्यते । परं च तद् निमित्तं चेति परनिमित्तम् । परनिमित्तं च तदादेशश्चेति प्रतिपाद्य 'परनिमित्तादेशः पूर्वस्मिन् स एव' (कात० प० ४४) ह्रस्व एवेत्यर्थः। तदा ह्रस्वान्नित्यं द्विर्भाव एव स्यादित्यर्थः । यद्येवं सर्वेऽत्रेति कथमकारलोपः, तयाहुरिति कथमय् भवतीति ‘परनिमित्तादेशः पूर्वस्मिन् स एव' (कात० प० ४४) पर इति । परत्वमेव नियम्यते, तेन 'शाले एते, माले इमे' "द्विवचनमनौ" (१।३।२) इति प्रकृतिर्भवति । तस्माद् इह ह्रस्व एवादेशः प्रतिपत्तव्य इति । । १०९ ।
[वि० प०]
जस्० । सर्वग्रहणं समस्तादेशार्थम्, अन्यथा “परस्यादेः" (भोज० प० सू० १६) इति आदेरेव स्यात् । ननु द्वाभ्यां गता आपो यत्रासौ द्वीपः। अन्तर्गता आपो यत्रासौ अन्तरीपः इत्यादि सिद्ध्यर्थं परिभाषेयमङ्गीकृता कैश्चित् । इह तु एते शब्दा रूढित एव सिद्धाः । नहि "ब्यन्तरुपसर्गेभ्योऽप ई:" (अ०६।३।९७) इति वचनमत्रादृतम्, तदस्याः परिभाषाया अनङ्गीकरणादेवादेर्न भविष्यति जसित्यभेदबलाद् वा जस इकाररूपेण परिणमत इत्यर्थः । एतेनैकवर्णत्वाद् अन्ते भविष्यति इत्यपि निरस्तम् । अतः किं सर्वग्रहणेन ? सत्यम् । प्रतिपत्तिगौरवनिरासार्थमेवेदं सर्वग्रहणम्।
'विशेषातिदिष्टः प्रकृतं न बाधते' (कात० प० १९) इति न्यायाद् अकारान्त एवानुवर्तते इत्याह - अकारान्तादिति किम् ? सर्वा इति । इह पूर्वस्मिंश्च विभाषा न वर्तते “अल्पादेर्वा" (२।१।३१) इत्युत्तरत्र वा - ग्रहणात् ।। १०९ ।
[क० च०]
जस्० । ननु ‘आसीनः' इति सिद्ध्यर्थम् “ई तस्यासः' (४।४।६) इत्यनेन 'पञ्चम्या निर्दिष्टे परस्य' (कात० प० २२) इति न्यायाद् आनस्याकारस्य यथा ईर्भवति