________________
७६
कातन्त्रव्याकरणम्
[रूपसिद्धि] १. वृक्षस्य । वृक्ष + ङस् । प्रकृत सूत्र से 'ङस्' को 'स्य' आदेश ।। १०१ ।
१०२. इन टा [२।१।२३ ] [सूत्रार्थ]
अकारान्त लिङ्ग = प्रातिपदिक से परवर्ती तृतीया-एकवचन 'टा' के स्थान में 'इन' आदेश होता है ।। १०२।
[दु० वृ०]
अकारान्ताल्लिङ्गात् परष्टा इनो भवति ।वृक्षेण । 'टेन' इति सिद्धे इनोच्चारणमग्रतः इन एव । तेन अतिजरसिन कुलेन । पृथग योगो बालावबोधार्थः ।। १०२।
[दु० टी०]
इन० । ननु 'कार्की निमित्त कार्यमित्येष निर्देशक्रमः' (कात० प० ५६) इति यस्माद् उपायपूर्वक उपेयो भवति 'टेन' इति निर्देशेन भवितव्यम्, ह्रस्वो वेति विप्रतिपत्तिश्चेत्, नैवम् । उभयथाप्येत्वविषयत्वात् । अथ दीर्घबलाद् विगृहीतिश्चेत्, नैवम् । “तेन दीव्यति०" (२।६।८) इति निर्देशात् । किञ्च "टा इन" इति विदध्यात् । अत आह - इनोच्चारणमित्यादि । अग्रतः-शब्द उभयत्र संबध्यते - इनोच्चारणमग्रत इन एवाग्रतो यथा स्यात् । तेन पश्चाजरस् भवतीति मतान्तरमेतद् बुद्ध्याध्यासितसंबन्धस्य व्यतिक्रमनिर्देशोऽपि दृश्यते । यथा "स्मै सर्वनाम्नः, सुरामि सर्वतः" (२।१।२५,२९) इत्यादिषु । तस्माद् अतिजरसा, अतिजरेणेति भवितव्यम् । पृथग्योग इत्यादि । यदि "टाङसिङसामिनात्स्याः " (अ०७।१।१२) दति विदध्यात् तदा 'इन' इति किम् अकारान्तः, उत नकारान्तः ? आदिति ह्रस्वी दी| वेति बाला विप्रतिपद्यन्ते ज्ञापकैरपि मुह्यन्तीति । अत एव लुप्तविभक्तिकनिर्देशः । ननु "उसिरात्" (२।१।२१) इत्यतः पूर्वम् ‘इन टा' इति कर्तुं युज्यते क्रमात्, नैवं लाभहानिशून्यमिदं चोद्यम्, स्यादिसम्बन्धे टकारोऽपि सुखप्रतिपत्त्यर्थ एव 'वृक्षात्' इत्यत्र स्याच्चेत् तर्हि इनदिति तत्रैव विदध्यात् । अथ अतिजरसादिति मतं चेत् तथाप्यनर्थकत्वात् ।। १०२।