SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये प्रथमो धातुपादः भावोऽत्र ऐत्वमकारस्य तु भवति, वर्णग्रहणे निमित्तत्वादिति । यदि पुनरैस एव क्रियते, ऐत्वप्रयत्नबलात् सन्निपातलक्षणपरिभाषामैस् बाधते तदा अतिजरसैरिति केचिदिति । ६७ ननु वृक्षैरिति अकारान्ताद् भिस ऐस्भाव:, तस्मिंश्च धुट्येत्वम्, उभयसावकाशमेतत् । तत्र ऐस्भावस्यावकाशी वचनप्रामाण्यात् कृते एत्वे भूतपूर्वादकारान्ताद् विहितविशेषणाद् वा एत्वस्यावकाशो भ्यसादिषु, अतः परत्वादेत्वेन भवितव्यम् चेदेवम्, कृताकृतप्रसङ्गी यो विधि ः स नित्य इति नित्यमैस्भाव एव स्यात् | आह च व्याघ्रभूतिः - एत्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति । भूतपूर्वात् कृतेऽप्येत्वे नित्यमैस्त्वं तथा सति ॥ ९७ । [वि० प० ] भिस्० । अर्थवशाद् विभक्तिविपरिणाम इत्याह- अकारान्तादिति । वाशब्दो न विकल्पार्थः, वृक्षेभिरिति भाषायां प्रयोगस्यादर्शनादित्याह - वाशब्द इत्यादि । तेन जरामतिक्रान्तैः कुलैरिति विग्रहे नपुंसकलक्षणह्रस्वत्वे सति अतिजरैरिति सिद्धम् । एसि सति सन्निपातलक्षणत्वेन जराशब्दस्य जरसादेशस्याभावात् । तर्हि कथम् ऐत्वम् अकारस्येति चेत्, ‘वर्णग्रहणे निमित्तत्वाद्' (कात० प० पा० ३४ ) इत्यदोषः । यद्येवम्, एसादेश एवास्तु किमैस्करणेनेति ? ऐकारोपदेशबलादैसादेशः सन्निपातलक्षणपरिभाषां बाधते । ततोऽतिजरसैरिति सिद्धम्, अतो वाशब्देनोभयमतं प्रमाणीकृतामित्याह - ऐस्करणादिति । ननु ऐस्करणमेवास्ताम्, किमैस्करणेनेति, अस्मिन् सति सन्निपातलक्षणपरिभाषाबाधया रूपद्वयस्य सिद्धत्वात्, जरसादेशो हि तत्र विकल्पेन विधीयत इति ? सत्यम् । एवं मन्यते, सन्निपातलक्षणनिषेधस्य नित्यं कृतत्वात् तन्निबन्धनोऽपि जरसा - देशो नित्यं स्यादिति प्रतिपद्येत मन्दधीरित्येव सूचनम् । ननु वृक्षैरित्यत्र परत्वाद् “धुटि बहुत्वे त्वे' (२ । १ । १९) इति कथमेत्वं न स्याद् उभयोरपि सावकाशत्वात् तत्रैत्वे कृतेऽपि वचनाद् भूतपूर्वगतिमाश्रित्य ऐसादेशस्य सावकाशत्वमेत्वस्यापि भ्यसादिषु चरितार्थत्वात् । अतः परत्वाद् एत्वेन भवितव्यमिति । तदसत्, एत्वे कृतेऽप्यैसादेशस्य वचनबलात् सद्भावमाचक्षाणेन नित्यत्वं प्रतिपादितमिति नित्यत्वादेसादेश इति । एत्वं चानित्यमैि
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy