________________
॥ श्रीः ॥
'कातन्त्रव्याकरणम्
अथ प्रथमे सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
[दु० वृ०]
[दु० टी०]
३.
देवदेवं प्रणम्यादौ सर्वज्ञं सर्वदर्शिनम् । कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम् ॥
शिवमेकमजं बुद्धमर्हदयं स्वयम्भुवम् । कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते ॥
प्रथमं तावदभिमतवस्तु चिकीर्षता सता विघ्नोपशमनाय धर्माय इष्टदेवतानमस्कारः करणीयः । स च त्रिविधः ३ कायिको वाचनिको मानसिकश्चेति । मनसा निर्वृत्तो यथा - संकल्परूपः क्रियानिरोधो वा समतालक्षणः । तत्र शास्त्रप्रस्तावाद् वाचनिक एव नमस्कारो न्याय्य इति भगवान् वृत्तिकारः श्लोकमेकं कृतवान् - 'देवदेवम्' इत्यादि । श्लोकपरार्धेन चाभिधानाभिधेयलक्षणः सम्बन्धः प्रतिपाद्यते ।
दीव्यन्तीति देवाः प्रतिनियतजगद्व्यापाराः प्राप्तमाहात्म्याः शक्रादयः । यः पुनरनियतविश्वव्यापारो नित्योदितमाहाल्यस्तानपि निर्माय स्वधर्मानुष्ठानविधानेन प्रतिनियतेषु जगद्व्यापारेषु नियुङ्क्ते स देवानां देवः । संबन्धलक्षणा षष्ठी समस्यते ।
9. कातन्त्रस्य 'कलाप - कौमार- शार्ववमिक दौर्ग' इत्येतान्यपि नामान्तराणि सन्ति । 'बुद्धमर्हन्तं तम्' इति 'बुद्धमाग्रयन्तम्' इति च पाठान्तरम् ।
२.
साहित्यशास्त्रीयलक्षणानुसारेण महाकाव्यस्यादौ तु आशीर्नमस्क्रियावस्तुनिर्देशात्मकं त्रिविधं मङ्गलमुपादीयते । द्र० का० आ० १/१४; सा० द०, परि० ६ । ३१९ - " आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा " ।
7