________________
सन्धिप्रकरणे चतुर्थी वर्गपादः
२४३ भाषायां चेत् 'वाशब्दः इति बहुलार्थःप्रतिपत्तव्यः । समासेऽवश्यमः कृत्ये खम्, काममनसोस्तुमः समो हितततयोरपि, मांसस्य पचि युड्घजोः एषामन्त्यो वर्णः खं शून्यमापद्यते-अवश्यकर्तव्यम्, अवश्यकार्यम्, कर्तुकामो गन्तुमनाः ।समःकाममनसोरपि सम्बन्धस्तेन सकामः, समनाः, सहितम्, संहितम्, सततम्, सन्ततम् । लोकोपचाराद् बहुलार्थत्वाद् वा | यणि तु नित्यमेव- साहित्यम्, सातत्यम् । मांसस्य पचनम् - मांस्पचनम् । मांसपाकः, मांस्पाकः । समास इति किम् ? अवश्यं कर्तव्यम्, गन्तुं कामोऽस्य, गन्तुं मनोऽस्य | क्रियायां क्रियार्थायामेव तुम्, भवतेर्गम्यमानत्वात् । मांसस्य पचनम्, मांसस्य पाकः ।। ६१ ।
॥ इति दुर्गसिंहविरचितायां टीकायां प्रथमे सन्धिप्रकरणे चतुर्थी वर्गादः समाप्तः॥
[वि०प०]
वर्गे० । ननु पूर्वसूत्रे मकार एव कार्टी, स एवात्रापि युज्यते कथमनुस्वार एव कार्य्यितया सम्बध्यते? सत्यम् । वर्गस्यापि व्यञ्जनत्वात् पूर्वेणानुस्वारे नकारस्य स्थितिरेव नास्तीति । अथ परत्वाद् विशेषविहितत्वाच्च वर्गे परे मकारस्यैव तद्वर्गपञ्चमः कथं न स्याद् इति चेत् तर्हि "मोऽनुस्वारं व्यञ्जने"(१।४।१५) इत्यनुस्वारस्य व्यक्तौ प्रवृत्तत्वाद् अतोऽनुस्वार इति ।। ___ननु किमर्थं व्यक्तिव्याख्यानं नकारस्यैव तद्वर्गपञ्चमो विधीयताम्, तदयुक्तम् । "अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य" (३३३१) इत्यनुस्वारागमे सति जङ्गम्यते इति अनुस्वारस्य ङकारो न स्यादिति । तच्छब्देन निमित्तभूतवर्ग उच्यते, स चासौ वर्गश्चेति तद्वर्गस्तस्य पञ्चम इति विग्रहः । तद्वर्गग्रहणं सुखार्थमेव । अन्यथा श्रुतत्वात् तस्यैव निमित्तभूतस्यैव वर्गस्य पञ्चमो भविष्यति । पुम्भ्याम्, पुंभ्याम् इत्यादि । पुंसाोऽन्शब्दलोपे संयोगान्तसकारलोपे सति पदमध्ये विरतेरभिधानान्मकारस्य पूर्वेणानुस्वारोऽनेन वर्गान्तश्च वा भवतीति ।।६१। ॥ इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां प्रयमे सन्धिप्रकरणे चतुर्थी वर्गपावः समाप्तः॥
[क०च०]
वर्गे०। परत्वादिति श्रेष्ठत्वादित्यर्थः। पक्षान्तरमाह- विशेषविहितत्वादिति कश्चिद् । अपरे तु “भिसैस् वा” (२।१।१८) इत्यत्र दर्शयिष्यमाणे व्याघ्रभूतिमते नैकस्मिन्नुदाहरणेऽपि परत्वचिन्तेति यत् परत्वमुक्तम्, तत् परमतम् । स्वमते तु