________________
१६६
कातन्त्रव्याकरणम्
सति लोपे तु प्रकृतिरित्यत्रानुवृत्तावुत्तरत्र अत एवानुवृत्तिरिति कथं तर्हि एवं न कृतमिति चेद् आस्तामेवं सुहृदुपदेशः । यथा सन्निवेशे तु न वैयर्थमिति ।
अदस् सीत्यादि । ननु कथमत्र त्यदाद्यत्वम्, विशेषविधित्वेनापवादत्वात् परत्वाच्च त्यदाद्यत्वं बाधित्वा सावौत्वस्य प्रवर्तनात् । तथा च "बाधयित्वा त्यदाद्यत्वं सावौश्चान्ते प्रवर्तते" इति पठति । अन्यथा आदावेव त्यदाद्यत्वे अदसः सिरित्यादि । ननु कथमत्र त्यदाद्यत्वं विशेषविधित्वेनापवादत्वात् परत्वाच्च "त्यदायत्वम्, स्त्रियाम् आदा"(२।३।२९; ४|४९) इति कृतेऽदसोऽनवयवत्वात् कथम् अदस औत्वम् इत्यनिष्टरूपं स्यात् । अत्र कश्चित् त्यदाद्यत्वमित्यस्यानन्तरं बाधित्वेति पदमध्याहार्य्य पञ्जी युज्यते । तदेतत् सर्वमनुचितम् ।
ननु "सावी सिलोपश्च" (२।३।४०) इत्योकार एव विधीयताम्, ततश्च त्यदाद्यत्वेऽन्तस्य ओकारे "ओकारे औ औकारे च" (१।२।७) इत्यौकारे कृते सिध्यति, किमौकारकरणेनेति ? तस्माद् औकारकरणं बोधयति स्वरादेशपरिभाषाऽस्तीति परिभाषान्वर्थबलात् कृतं त्यदाद्यत्वम्, अदसः कृतत्यदाद्यत्वस्य सावौ सिलोपश्चेति प्रवर्तते इत्यवश्यं वक्तव्यम् । यत्तु स्त्रीलिङ्गे दूषणमुक्तं तदप्यसङ्गतम्, “लिङ्गविशिष्टस्यापि ग्रहणम्" (काला० परि० २५) इति वचनात् । असाविति साधने “सावौ सिलोपश्च" (२।३।४०) इत्योत्वे कृते सति "स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवद्" (काला० परि० १५) इत्यतः “अकारे लोपम्” (२।१।१७) इत्यकारलोप इत्यपि बोद्धव्यम् ।।३९।
[समीक्षा]
'तय् + आहुः, तस्माय् + आसनम्, असाव् + इन्दुः' इस स्थिति में दोनों ही व्याकरणों के अनुसार विकल्प से पदान्तवर्ती य्-व् वर्गों का लोप होता है । लोपपक्ष में दीर्घ-गुणादि कार्य नहीं होते । इस प्रकार 'तयाहुः- त आहुः, तस्मायासनम् - तस्मा आसनम्, असाविन्दुः- असा इन्दुः' आदि दो-दो रूप सिद्ध होते हैं । इस प्रकार कार्य की दृष्टि से दोनों व्याकरणों में विषमता प्रतीत नहीं होती, . परन्तु जहाँ कलापकार ने लोप का वैकल्पिक निर्देश किया है, वहीं पर पाणिनि ने शाकल्य के मत में लोप दिखाया है | कलापकार ने इस लोपविधायक सूत्र में ही लोपपक्ष में प्राप्त सन्धि के निषेधार्थ प्रकृतिभाव कहा है, परन्तु पाणिनि य्-व् का लोप हो जाने पर दीर्घादि सन्धि के वारणार्थ उन्हें असिद्ध मानते हैं- पूर्वत्रासिद्धम् (८।२।१),