________________
१६४
कातन्त्रव्याकरणम् आहुरित्यत्र अयोलोपे सति तकारस्य तृतीयव्यवच्छेदार्थम् । नानर्थक्ये वर्गान्तरस्य विधिरपि दृश्यते । यवयोर्लोपे तु प्रकृतिरिति वचनादनुमीयमानो लोपोऽप्रधानमिति प्रकृतिशब्देनैव नवाशब्दस्य सम्बन्धः स्यादिति लोपग्रहणम् । पदान्त इति । अन्तशब्दोऽत्र अवयवधर्ममात्रवृत्तिर्विषयसप्तमीयम् ।
लोपे वितिवचनाद् अलोपे प्रकृतिर्न स्यात् । तयाहुस्तस्मायासनमिति यकारवकारावेतावीषत्स्पृष्टतरावपीह स्वभावसिद्धौ । उनिपाते पुनरीषत्स्पृष्टतरावेव स्वभावादिति रूपद्वयम् । एतउ-एतयु, तस्मायु-तस्माउ, पटउ-पटवु, असाउ-असावु । पौरामात्येषु योनौ लिङ्गे स्वभावे च प्रकृतिः । इह तु पारिशेष्यादभिधीयते- प्रकृतिः स्वभावो भवतीति । श्रुतानामयादीनां स्वरस्य स्वभाव एवेति । दीर्घात् परलोपे विघातेऽपि भवति । अन्यथा निमित्ताभावेनान्यथाभावः स्यात् । अत एव नञ् न निर्दिश्यते । वाक्यमेदेऽत्र तुशब्द इति ।।३९ ।
[वि० प०]
अयादीनाम्। अय् आदिर्येषामादेशानां तेऽयादयः इति तद्गुणसंविज्ञानो बहुव्रीहिरयम्, व्याख्यानादित्याह - अय् इत्येवमादीनामिति । त आहुरिति यलोपे कृते समानलक्षणो दीर्घः प्राप्तः प्रकृतिभावान्न भवति । तथा तस्मा आसनमिति दीर्घात् परलोपो न भवतीति । ननु कथम् एतद् यावता श्रुतत्वाद् अयादीनामेव स्वरस्य प्रकृत्या भवितव्यम् । न चेह परलोपे सति काचिद् विकृतिरस्ति पूर्वस्य । तदयुक्तम्, यकारलोपे सति परलोपं प्रति निमित्तत्वमेवान्यथाभावः स्यात्, अनिमित्तस्य निमित्तभावो विकृतिरिति । असा इन्दुरिति । अदस् सिः, त्यदाद्यत्वम्, सावौ सिलोपश्चेति औकारः । सौ सः । अत्र प्रकृतिभावादेत्वं न भवति । यकारवकारौ ईषत्स्पृष्टौ ईषत्स्पृष्टतरावपि स्वभावादिति रूपत्रयं सिद्धम् । उ-निपाते पुनरीषत्स्पृष्टतराविति रूपद्वयमेवेति । एत उ-एतयु, तस्मा उ-तस्मायु, पट उ-पटवु, असा उ-असावु ।।३९ ।
[क० च०]
अयादीनाम्। अय् एवादिपेषाम् आदेशानाम् इति । एकार आदिर्येषामादेशिनामित्युक्तेऽपि अर्थाद् अयादेशे सति यवयोः प्राप्तेः, सा च गरीयसीत्युपेक्ष्यते । व्याख्यानादिति । आयादीनामित्यकरणादित्यर्थः। न चात्रापि सामीप्यार्थः कथं न स्यादिति वाच्यम्, बहुवचनासङ्गतेः य (व)-ग्रहणवैयर्थ्याच्चेति साम्प्रदायिकाः। 'आयवावाम्' इत्यकरणादिति विद्यानन्दः । “कूल उद्रुजोद्वहोः" (४।३।३७) इति