________________
सन्धिप्रकरणे द्वितीयः समानपादः
१४५ इत्थं योजनीया पञ्जिका | ननु अवोचद् इति क्रियापदं तस्याः कर्मपदम् ओमिति, ततो द्वितीया प्राप्नोतीत्याशङ्क्याह - ओमशब्दस्याव्ययत्वाद् इति । समासे परमोम् इत्यादिकं ज्ञातव्यम् । असमासे वृत्तौ दर्शितमिति विशेष इति । ननु एतदपि कथम् "ओष्ठौत्वोः समासे वा" (कात० परि० सं० २०) इत्यतः समासाधिकारो वर्तते । नैवम्, "नामधातो;" (कात० परि०, सं० ६) इत्यतो वाऽनुवर्तते । यत् पुनरिह वाग्रहणं तत्तु “ओमि च नित्यम्" (कात० परि० सं० १६) इत्यत्र समासाधिकारनिवृत्त्यर्थमिति केचित् । तन्न । ग्रन्थार्थस्यास्वरसादिति इतिशब्देनैवोक्तार्थत्वाद् द्वितीयाप्रसङ्गाभावाच्च । तस्मान्निपाताव्ययोत्तरपदेन सह समासो नास्तीत्ययमेव ग्रन्थार्थः । परमोम् इत्यादिकं तु अनिष्टमेव । ततश्च “ओष्ठोत्वोः समासे वा" इत्यत्र भूयो वाग्रहणाद् विकल्पनिवृत्तिः सिद्धैव, नित्यग्रहणं तु सुखार्थमेव । 'अक्षौहिणी' इत्यत्र टीकाकृता समासान्तसमीपयोति णत्वमुक्तम्, तत् कथं संगच्छते ।
समासान्तस्योदाहरणं देयम् | यथा 'माषवापिनौ,माषवापिणौ' इति ।समाससमीपस्य यथा ‘माषवापिण्यः,माषवापिन्यः' इति । अत्र स्त्रीप्रत्ययस्य समासान्तत्वादुपदर्शितवाक्ये नास्य सूत्रस्य विषयः। तस्मात् पूर्वपदस्थेभ्यः संज्ञायामिति त्रिलोचनेन यदुक्तम्, तदयुक्तमेव ? सत्यम् । एतत्तु णिनिप्रत्यये बोध्यम् । तथाहि - अक्षमूहितुं शीलमस्येति 'गतिकारकोपपदानां कृभिः समासवचनं स्याद्युत्पत्तेः प्राक् ' (व्या० परि० वृ० १३८) इति न्यायात् स्त्रीप्रत्ययात् प्राक्समासे सति नकारस्य समासान्तत्वादस्य सूत्रस्य विषयः।
ऊहनम् ऊहः, सोऽस्यास्तीति वाक्ये तु "पूर्वपदस्थेभ्यः संज्ञायाम" (कात० परि०, ण० २) इत्यनेन णत्वमध्याहर्तव्यमिति हेमकराशयः । वस्तुतस्तु सामान्यत्वादक्षशब्दस्य नपुंसकेन ऊहिशब्देन समासे सति पश्चात् स्त्रीत्वविवक्षा कृता । तथा च सति समासान्तनकार इति कथं नात्रास्य विषयः । अत एव सोऽस्यास्तीति वाक्ये टीकाकृताऽस्येति सामान्यनिर्देशो दर्शित इति । ____ यत्तु टीकायाम् अक्षाणामूहिनीत्युक्तं तच्च न समासवाक्यम्, किन्तु तात्पर्यार्थविवरणं तादृशविवक्षायां समासान्तसमीपयोति णत्वमविरुद्धम् एव । अत एव समासान्तसमीपयो।त्यस्य विषयः । वस्त्रक्रीतीति क्रीतात् करणादेरिति ईत्वं नास्तीति, नपुंसकेन समस्य पश्चात् स्त्रीत्वविवक्षा इति मतं नदादिसूत्रे टीकाकृदेव वक्ष्यति । पक्षे णकारस्यापि स्थितिरिति कुलचन्द्रः।