________________
१४०
कातन्त्रव्याकरणम्
इनि कृते अत्रापीरशब्दस्य विद्यमानत्वादीरग्रहणेनास्मिन्नपि भविष्यति किमीरिन्ग्रहणेन, एतदेवाह – नन्विति।
ननु रग्रहणेन ईरिणो ग्रहणमिति किमुक्तम् ईरिणि ईरशब्दस्याकारान्तत्वाभावात् । अत्र हेमकरः- ‘स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवद्' (काला० परि० १५) इति न्यायाद् लुप्तस्याकारस्य स्थानिवद्भावादकारान्त ईरशब्दो विद्यते एवेति । नच 'योऽनादिष्टात् स्वरात् पूर्वस्तं प्रति स्थानिवद्' (कात० परि० वृ०५) इति न्यायात् । अत्रोच्यते - एकदेशविकृतस्यानन्यवद्भावान्नोक्तदोषप्रसङ्गः, एकदेशस्य निरर्थकत्वादिति ।
ननु कथं निरर्थकस्य ईरशब्दस्य क्रियावाचकत्वम् ? सत्यम्, जहत्स्वार्थवादिनो मतमवलम्ब्योक्तम् । अथ मत्वर्थीये ताच्छील्यं नास्तीति, अतस्ताच्छील्येऽपि स्वैरीतिपदसिद्ध्यर्थमेतदपि वक्तव्यम् इत्याह - न च इति । लोके स्वातन्त्र्ये रूढित्वादिति भावः। । ननु यदि ईरिन्ग्रहणं स्वैरिणमिति णिन्यन्ते स्वैरीति पदनिषेधार्थमभवत्, कथं सुखार्थमिति परिशिष्ट-कुलचन्द्रयोः पञ्जीं प्रत्याक्षेपः । तन्न । आपूर्वादीर गतौ (५।२६२) इत्यस्माद् धातोणिनि कृते “अवर्ण इवणे ए" (१।३।२) इत्याकारस्यैकारे स्व + एरीति स्थिते आङ्यादिष्ट इत्यकारलोपे यदि स्वैरीति पदं भविष्यति, तदा केवलणिन्यन्तेऽपि स्यादेव विशेषाभावात् । न च वक्तव्यमाङोऽर्थभेद इति परिशिष्टकारेण प्रौढो भारः, प्रौढो रथानामित्यत्राङोऽर्थस्यातिरिक्तत्वेनानङ्गीकरणात् ।
वस्तुतस्तु स्वैरीति पदं संज्ञायामेव, असंज्ञायां पुनः स्वैरीति पदं केन निवार्यताम् । यथा असंज्ञायां गोऽक्षीति । ननु एकारैकारयोरेकविभक्तिनिर्देशे सिद्ध्यति, किं भिन्नविभक्तिनिर्देशेन ? न च वक्तव्यम् - यथासङ्ख्यनिवृत्त्यर्थमिति अवर्णव्यवहारस्य व्यतिक्रमसिद्धत्वेन तन्निराससिद्धत्वात् ? सत्यम् । एतादृशे सूत्रे कृते षष्ठीमपि प्रतिपद्यते । अत एकारैकारयोः स्थाने ऐर्भवति तृवर्णे परे इत्यर्थोऽपि सम्भाव्येत । नच वक्तव्यम् ऐकारस्य ऐकारकरणं व्यर्थमिति आयादेशबाधनेन चरितार्थत्वं स्यादिति (चेत्, न । लोपप्रवर्तनात् लकारलोपे आयादेशप्राप्तिरेव नास्ति कथं तस्य बाधक ऐकारो भविष्यति ? सत्यम् | एकारैकारयोः कार्यित्वात् समाससम्बन्धस्य प्रवृत्तिः। एतच्च विप्रतिषेधमात्रं न तु स्वरूपदूषणम्) । एवम् “ओकारे औ औकारे च” (१।२।७) इत्यत्रापि व्याख्येयमिति ।।२९।