________________
१५८
कातन्त्रव्याकरणम् कारोऽप्यायादेशबाधक इति । एवे चानियोग इति । अद्येव, इहेवेति तद्व्याख्यानमेतद् नियोगव्यापारकरणं तद्विषये न चेद् एवशब्दवाच्यो नियमः प्रवर्तते इत्यर्थः । स्वैरमिति | ईरणम् ईरः इति भावे घञ् । स्व ईरोऽस्य स्वैरं कुलम् । क्रियाविशेषणं वा । स्वम् ईरितुं शीलमस्येति स्वैरी । स्त्री चेत् - स्वैरिणी । ईरिन्ग्रहणं शक्यमकर्तुं स्वैरोऽस्यास्तीति स्वैरीति। न च ताच्छील्यार्थ उपपद्यते, तदेतन्न वक्तव्यम्, लोकोपचारात् सिद्धम् ।।२९ ।
[वि० प०]
एकारे०। एवे चानियोग इति । नियोजनं नियोगो व्यापारस्तस्मादन्योऽनियोगस्तस्मिन्निति । अद्येव, इहेवेति स्वरूपकथनं न तु नियोगः । स्वस्यादित्यादि । एत्वे प्राप्ते स्वशब्दस्यात ऐत्वमुच्यते । यदा तु स्वस्यादैत्वमिति पुस्तकान्तरे पाठस्तदाप्यत ऐत्वमदैत्वमिति षष्ठीसमासः स्वस्येत्यपेक्षायामपि यथा देवदत्तस्य गुरुकुलम् इति ।
स्वैरम्, स्वैरीति। ईर गतौ, ईरणम् ईरः, भावे घञ्, स्व ईरो यस्येति स्वैरं कुलम्, क्रियाविशेषणं वा । स्वमीरितुं शीलमस्येति "नाम्न्यजातौ णिनिस्ताच्छील्ये" (४।३।७६) णिनिः । ननु किमर्थमीरिन्-ग्रहणम्, अत्रापि ईरशब्दस्य विद्यमानत्वाद् ईरग्रहणेनैवास्मिन्नपि भविष्यति । नैवम्, अर्थवद्ग्रहणे नानर्थकस्य (कात० परि० वृ० ४) इति एकदेशस्य निरर्थकत्वान्न प्राप्नोति । तर्हि स्वैरोऽस्यास्तीति पश्चादिन् भविष्यति । न चेह ताच्छील्यार्थः सङ्गच्छते लोके स्वातन्त्र्येण प्रसिद्धत्वात् ? सत्यम्, ईरिन्ग्रहणं सुखार्थम् । तदेतन्न वक्तव्यम्, लोकोपचारादेव सिद्धम् ।।२९।
[क० च०]
एकारे० । एवे चानियोग इति । ननु यदि नियोगः क्रिया, सा च नैव शब्दवाच्या । एवशब्दार्थो हि सादृश्यम्, नियमोऽसम्भावना, तत्कथमेवशब्दो नियोगे वर्तते, नैवम् । अभिप्रायापरिज्ञानात् । तथाहि - एवशब्देनात्र इवशब्दार्थ उच्यते । ततश्च स यदि क्रियाविषयो न भवति तदा पूर्वलोप इत्यर्थः । यद्येवम् – मालेव तिष्ठ, बालेव गच्छ इति सादृश्ये, तदद्यैवाभूदित्यसम्भावनायां कथं लोपः । अत्र केचित् - अमीषां साधनमिवशब्देन प्रतिपादयन्तस्तादृशस्थल एव एवशब्दस्य प्रयोगं न मन्यन्ते । तन्न । स्वोदाहरणस्यापि इवशब्देन सिद्धे वचनस्य वैफल्यप्रसङ्गाद् वाङ्मात्रादेवशब्दस्य सङ्कोचकल्पनाया अशक्यत्वाच्च ।
साम्प्रदायिकास्तु क्रियाया अविवक्षायां पूर्वलोपं कृत्वा मालेवेति व्युत्पाद्य पश्चाद् गच्छेत्यादीनां सम्बन्ध इत्याहुः । तदप्यसङ्गतम् - अग्रतो गच्छेति सम्बन्धेऽनिष्ट