________________
है । जैसेधक वर्षों से
सन्धिप्रकरणे प्रथमः सज्ञापादः [ उच्चारणे वायोरल्पतया नादेषन्नादौ न श्रूयेते किन्तु श्वासोच्छ्वासौ श्रूयेते, अतस्ते अघोषा भवन्ति इति शेषः- शिक्षावल्लीविवृतिः] ।।११।
१२. घोषवन्तोऽन्ये (१।१।१२) [सूत्रार्थ]
अघोषसंज्ञक वर्णों से अतिरिक्त २० व्यञ्जनों की घोषवान् संज्ञा होती है । जैसे- ग घ ङ, ज झ ञ, ड ढ ण, द ध न, ब भ म, य र ल व, ह ।।१२।
[दु० वृ०]
अघोषेभ्यो येऽन्येऽवशिष्टा गादयस्ते घोषवत्संज्ञा भवन्ति । ग घ ङ, ज झ ज, ड ढ ण, द ध न, ब भ म, य र ल व, ह । घोषवप्रदेशाः- "घोषवति लोपम्" (११५।११) इत्येवमादयः ।।१२।
[दु० टी०]
घोष० । घोषो विद्यते येषां ते घोषवन्तः, वन्तुरिहातिशायने, यथा 'उदरवती कन्या' इति । उक्तापेक्षोऽयमन्यशब्दः इह “सझी । ननु सतः कार्यिणः कार्येण सम्बन्धात् पूर्वमुच्चार्यते संज्ञी, पश्चात् संज्ञेति । तथा च "तत्र चतुर्दशादौ स्वराः" (१।१।२) इत्यादिषु परा एव निर्दिश्यन्ते सञ्ज्ञा इति नैव दोषः । अभिधानाभिधेययोः प्रतिपत्त्यवस्थानिबन्धनात् । यथा अयं गौः, गौरयमिति । तथा च वर्गाणां प्रथमद्वितीयाः शषसाश्चाघोषा इत्युक्ते सतीतरे तृतीयचतुर्थपञ्चमा य-र-ल-व-हाश्चानपेक्षया घोषवन्त इति वक्तुं शक्या एव "स्वरघोषवत्सु तृतीयान्" (१।४।१) इति च निर्देशात् सूत्रमिदं तु मन्दधियां सुखप्रतिपत्त्यर्थम् । कोऽत्रान्यशब्दस्य परत्वे दोष इति तथा वक्ष्यमाणेषु त्रिषु योगेष्वपि प्रतिपत्तव्यमेव | सूत्रार्थे संज्ञैव पराविर्भाव्यते सुखार्थमिति । एते घोषवन्तः संवृतकण्ठाः नादानप्रदानाः । अनुस्वारोऽप्येवम् । किन्तु घोषवत्संज्ञायाः प्रयोजनं नास्तीति न निगद्यते ।।१२।
[वि० प०]
घोषः० । घोषो ध्वनिर्विद्यते येषामित्यतिशायने वन्तुः । यथा 'उदरवती कन्या' इति ।।१२।