________________
७८
कातन्त्रव्याकरणम्
दुर्बलस्य यथा राष्ट्रं हरते बलवान् नृपः । दुर्बलं व्यञ्जनं तद्वद् हरते बलवान् स्वरः ॥
(याज्ञ० शि०, श्लो० १११)।
एकाकिनोऽपि राजन्ते सत्त्वसाराः स्वरा इव ।
व्यञ्जनानीव निःसत्त्वाः परेषामनुयायिनः ॥
( वृ० ० वा० । द्र०, टे० ट० टे०, भा० १, पृ० १८६) ।। ९ । १०. ते वर्गाः पञ्च पञ्च पञ्च (91१1१० )
[सूत्रार्थ]
क् से लेकर म् तक के २५ वर्णों में से क्रमश: पाँच-पाँच वर्णों की वर्गसंज्ञा होती है और ये वर्ग संख्या में पाँच ही होते हैं । जैसे - १. कवर्ग, २. चवर्ग, ३. टवर्ग, ४. तवर्ग तथा ५. पवर्ग ।।१०।
[दु० वृ०]
ते कादयो मावसाना वर्णाः पञ्च पञ्च भूत्वा पञ्चैव ते वर्गसञ्ज्ञा भवन्ति ।
क ख ग घ ङ । च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म । वर्गप्रदेशाः - “वर्गाणां प्रथमद्वितीयाः शषसाश्चाघोषाः " (१|9199 ) इत्येवमादयः।।१०।
[दु० टी०]
1
ते वर्गाः । तच्छब्दस्य पूर्ववस्तुपरामर्शितया तद्गतनपुंसकलिङ्गेनैव निर्देशो युज्यते कथमिदं पुंल्लिङ्गमिति ? नैवम्, कादयो वर्णा इत्यस्याभ्याहारत्वात् सर्वनामत्वाद् वा पूर्वलिङ्गाभिधानं परलिङ्गाभिधानं च दृश्यते । यथा “स नपुंसकलिङ्गं स्यात् " ( २/५/१५), "य आधारस्तदधिकरणम्” (२|४|११ ) इति । वर्गशब्दः समुदायवाची सजात्यपेक्षयेति । " चवर्गस्य किरसवर्णे” (३ | ६ | ५५) इति सवणपिक्षया असवर्ण उपपद्यते । पञ्च पञ्च इति वीप्सायां द्विर्वचनम् । वीप्सा चात्र वर्गगुणेनैव तृतीयपञ्चग्रहणं मान्तनियमार्थम् । तेन 'त्वं यासि त्वं रमसे' इति "वर्गे तद्वर्गपञ्चमं वा” (३।६।१६) इति पञ्चमो न भवति । प्रयोगे तु पञ्चानामेकत्रानवस्थानादेकैकश एव वर्गसञ्ज्ञाफलभाजः। तद्ग्रहणं कादिपरामर्शनार्थम्, अन्यथा अप्रस्तुतत्वाद्
"