________________
૪
कातन्त्रव्याकरणम्
[दु० टी० ]
प्रसङ्गः,
परः । ननु " पूर्वो ह्रस्वः” (१।१।५ ) इत्युक्ते "परो दीर्घः” इति गम्यते, सम्बन्धिशब्दत्वात्, किं परवचनेन ? ह्रस्वदीर्घाविति च कृते यथासङ्ख्यं पूर्वग्रहणेनापि किं कृतम्, यत् कृतं तत् सुखप्रतिपत्त्यर्थमेव । लघुगुरुसंज्ञापि लोकोपचारादित्याह - ह्रस्वो लघुः इत्यादि । किञ्च यदि संयोगपरस्य ह्रस्वस्य गुरुसंज्ञा नास्तीति तदा "नाम्यादेर्गुरुमतोऽनृच्छः " ( ३।२।१९) इत्यादिना विधीयमाने परोक्षायामृच्छेः कः येन प्रतिषिध्यते, तस्मादनुमीयते 'संयोगे सति पूर्वो ह्रस्वोऽपि गुरुः' इति । तेन 'कुण्डा, हुण्डा' इति "गुरोश्च निष्ठासेट : " ( ४ | ५ | ८१ ) इति अप्रत्ययो भवति । ननु तर्हि ह्रस्वदीर्घावपि लोकत एव सिद्धौ ? सत्यम्, बालबुद्धिनिष्पत्त्यर्थावेव हि तौ, ततो हि लघुगुरुसंज्ञां प्रतिपद्यन्ते श्रोतारः । कथम्, नित्यं सन्ध्यक्षराणि दीर्घाणि तान्यपि द्वादशप्रभेदानि इत्याचक्षते । न च वचनमिह प्रयोजयति । यदि रैच्छाया, गोच्छाया, नौच्छाया' इति सन्ध्यक्षराद् इति पदान्ताद् द्विर्विभाष्यते, तदा येनाप्यधिकारेण दीर्घात् पदान्ताद् वा छस्य द्विर्भाव इष्यते, तेनैव सन्ध्यक्षरादपि । “दीर्घस्योपपदस्यानव्ययस्य ( ४|१ | २० ) इत्यत्र मतं दर्शयिष्यामः || ६ |
[वि० प०]
परः। पूर्ववदिहापि वीप्सार्थो मन्तव्यः । " ह्रस्वो लघुः, संयोगे परे ह्रस्वो गुरुः, गुरुर्दीर्घश्च" इति लघुगुरुसंज्ञार्थं सूत्रत्रयं केनचित् कृतम्, तदिह न वक्तव्यमित्याहह्रस्व इत्यादि । तथेत्युच्चारणवशादेवेति । किञ्च यदि ह्रस्वो वर्णः संयोगे गुरुसंज्ञो न भवेत् तदा ‘“नाम्यादेर्गुरुमतोऽनृच्छः” (३।२।१९) इति ऋच्छेः प्रतिषेधो व्यर्थः स्यात् । तत्र हि गुरुमतो धातोर्विधीयमान आम्प्रत्ययः कथमृच्छेः प्रसज्येत, येन अर्थवानिति दर्शयति गुरुमत इत्यादि || ६ |
-
[क० च०]
परः । इहापि परशब्दः पूर्वशब्दापेक्षया देशवृत्तिः । ननु परग्रहणं किमर्थं पूर्वादीनां सम्बन्धिशब्दत्वादेव पूर्व-परत्वलाभो भविष्यति । न च पूर्वशब्दोऽनुवर्तते इति वाच्यम्, पृथग् योगात् । ननु तत्र विभक्तिविपरिणामे कारणमुक्तम् । अत्र च कारणाभावात् सवर्णानुवृत्तौ सत्यां द्वौ द्वौ सवर्णौ दीर्घौ भवतः इत्यर्थः कथं न स्यात् ? नैवम् । लोके दीर्घभिन्नस्यैव ह्रस्वव्यवहारात् चेत्, अकिञ्चित्करमेव तत्संज्ञापरिभाषितत्वात् । तदयुक्तम्, तथाहि दीर्घाविति कृतं स्यात् तथा सवर्णाविति एकस्वरस्य द्विर्वचने सति अभ्यासे