________________
भूमिका
कलापं कातन्त्रं यदिह विदितं दुर्गविततम्, क्वचिद् यत् कौमारं प्रथितमिदमास्ते बहुफलम् । मयाध्यायः सन्धेनिखिल इह तस्यैव पठितः, सतां यत्नाद् भूयात् सततमुपकाराय महते ॥ शर्ववर्मादिभिः प्रोक्तं कातन्त्रं सन्धिसंज्ञकम् ।
यत् पूर्व तन्मया सर्व रक्षितं शब्दगौरवात् ॥ वेदार्थज्ञानाय प्रातिशाख्य-निरुक्तव्याकरणरूपा महती शब्दानुशासनपरम्परा प्रवर्तते प्राचीनकालादेव । प्रातिशाख्यं निरुक्तं च वैदिकशब्दानुशासनमंशत आख्याति । परं व्याकरणरूपं शब्दानुशासनं वैदिकं लौकिकं चोभयविधमंशं व्याप्नोति । व्याकरणस्यापि परम्पराद्वयी दृश्यते - माहेशी माहेन्द्री च । साम्प्रतं माहेशीं परम्पराम् अनुसरन्ति पाणिनीयचान्द्रप्रभृतीनि बहूनि व्याकरणानि, परं माहेन्द्रीं परम्परामाश्रयते केवलं कातन्त्रमेव । माहेशी परम्परा प्रत्याहाररूपा, कृत्रिमा, संक्षिप्ता चेति | माहेन्द्री परम्परा च लोकव्यवहारानुगता, प्रत्याहारहीना, विस्तृता चेति ।
कातन्त्रव्याकरणस्योपयोगिता
पाणिनीयपरवर्तिषु प्रायेण चत्वारिंशत्संख्याकेषु व्याकरणेषु कातन्त्रं प्रथम संक्षिप्तं सरलं मूर्धन्यं च वर्तते । राज्ञः सातवाहनस्य शब्दविद्याधिगमाय शर्ववर्माचार्येणेदमध्यायत्रितये निबद्धमासीत् । एकदा जलक्रीडया श्रान्तिमनुभवन्ती विदुषी राज्ञी 'मोदकं देहि' इति वचनं जगाद, तदनन्तरं मोदकसमर्पणकृत्यमवलोक्य राज्ञी व्याकरणज्ञानशून्यं राजानमुपहसितवती । तेन नितान्तं विमना राजा व्याकरणज्ञानम् आसादयितुं प्रतिजज्ञे । तदीयां प्रतिज्ञां पूरयितुमेवाचार्यः शर्ववर्मा कुमारं कार्तिकेयमाराध्य व्याकरणमिदं निबबन्ध । 'मोदकम्' इति पदे ‘मा + उदकम्' इति सन्धिर्वर्तते, तस्मात् सर्वप्रथमं पञ्चपादात्मकं सन्धिप्रकरणमेकोनाशीतिसूत्रबद्धं (७९) प्रस्तुतम् । 'मोदकम्' इति स्यादिपदम् । तस्माद् द्वितीयं प्रकरणं वर्तते