________________
३१२
• साहित्यदर्पणः।
[दशम:
• यथा वा--'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम् ।
चश्चलाऽपि चिरायात्मदूषणं परिमाय॑ सा ॥ ३०२ ॥ अत्र योषित आलिङ्गनं नायकस्य सादृश्येनोचित'मिति लक्षम्यालिङ्गनस्य राजन्यसम्भवादुपमाबाधकम् , नारायणे सम्भवाद्रूपकम् । एवम्--
'वदनाम्बुजमेणाक्ष्या भाति चञ्चललोचनम्। रुचिरभृकुटीशालि मधुरस्मितशोभनम्॥३१०॥
अत्र वदने लोचनस्य सम्भवादुपमायाः साधकता, अम्बुजे चासम्भवाद्र्पकस्य बाधकता एवं 'वदनाम्बुज'मित्यादौ साधारणधर्मप्रयोगे 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' २२११५६ इतिवचनादुपमासमासो न सम्भवतीत्युपमाया बाधकः । एवं चात्र मयूरव्यंसकादित्वाद्रूपकसमाल एव । एकाश्रयानुप्रवेशो यथा मम
'कटाक्षेणापीषत्क्षणमपि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेषविषयः। सरोमाञ्चोदश्चत्कुचकलशनिर्भिन्नवसनः परीरम्भारम्भः क इव भविताऽम्भोरुहदृशः॥३११॥'
यथा। वा। 'सा प्रसिद्धा । लक्ष्मीः । चञ्चलाऽस्थिरस्वभावा । अपि। चिराय। आत्मदूषणं स्वचाश्चल्यदोषम् । परिमार्ण्य निःशेष्य । निर्भरं स्थिरप्रेमपूर्वकम् । राजनारायणं राजैव नारायणस्तम् । त्वाम् । आलिङ्गति ॥ ३०९ ॥'
अत्र । 'योषितस्तत्कर्तृकमिति भावः । नायकस्य । आलिङ्गनम्। सादृश्येन तत्तदनुरूपेण दाम्पत्येनेति भावः । उचितम् ।' इति । लक्ष्म्यालिङ्गनस्य लक्ष्मीकर्तृकस्याश्लेषस्य । राजनि । असम्भवात् । 'त'दिति शेषः । उपमोबाधकम् । नारायणे । सम्भवात् । रूपकम् । अयम्भावः-राजा नारायण इवेति समासस्तदैव समगमिष्यत, यहि लक्ष्यालिङ्गनौचिस्यं राजन्यभविष्यत् । अतस्तदभावादुपमाया बाधः, रूपकस्य तु सम्पत्तिः । इति । एवम्।
एणाक्ष्या मृगनेत्रायाः । चञ्चललोचनं चञ्चले लोचने नेत्रे यस्य तथोक्तम् । रुचिरभ्रकटीशालि रुचिरे ये भृकुटी ताभ्यां शालते शोभते इत्येवम्भूतम् । मधुरस्मितशोभनं मधुरस्मितेन शोभनं रमणीयम् । वदना. म्बुजं वदनम्मुखमम्बुजमिवेति तथोक्तम् । भाति ॥३१०॥ ।
अत्र । वदने मुखे ।लोचनस्य । सम्भवात् । उपमायाः । साधकता । अम्बुजे कमल । च । असम्भवात् । रूपकस्य । बाधकता। एवम् । 'वदनाम्बुज'मित्यादौ। साधारणधर्मप्रयोगे । 'घदनसुन्दराम्बुज'मित्येवं पाठपरिवृत्ताविति भावः । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।'२।१। ५६ इतिव. चनात् ( इति सूत्रात् ) । उपमा (उपमाघटक) समासः। न । सम्भवति । इति । उपमायाः । बाधकः? 'साधारणधर्मप्रयोग' इति शेषः । एवं तथासति । च । अत्र । मयूरव्यंसकादित्वात् 'मयूरव्यंसकादयश्च ।' २।१।७२ इत्यनेन सूत्रेणेति शेषः । रूपकसमासः। एव । अयम्भावः-'वदनसुन्दराम्बुज मित्सत्र वदनमेव सुन्दराम्बुजमित्येव समासः, मयूरव्यंसकादिगणगतत्वेन तस्य खीकारात् । नतु 'वदनं सुन्दरमम्बुजमिवेति वदनं' सुन्दराम्बुज'मित्स्यपि वा समासः । एतद्धटकस्य 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।' २।१।५६ इति सूत्रस्य सामान्याप्रयोग एव प्रवृत्तः, अत्र च 'सुन्दरे ति सामान्यधर्मवाचकस्य प्रयोगात् । इति ।
एकाश्रयत्वमुदाहर्तुमाह-एकाश्रयानुप्रवेशः । यथा । मम-सा मनोरमतया प्रसिद्धा कान्ता । यदि । ईष. तुक्षणं किञ्चित्क्षणावधि । अपि । कटाक्षेण । अपि । निरीक्षेत । तदा । पिहिताशेषविषयः पिहिता शेषा विषया येन तादृशः । अत एव-सान्द्रो निबिडः । आनन्दः प्रमोदः । स्फुरति । अथ-अम्भोरुहदृशोऽम्भोरुहे इव दृशौ यस्यास्तस्याः, कमलनेत्रायास्तस्याः कान्ताया इत्यर्थः । सरोमाश्चोदश्चत्कुचकळशनिर्भिन्नवसनः सरोमाश्वमुदञ्चन्तौ वर्धमानौ कुचकलशौ ताभ्यां निर्भिन्नं छिन्नं वसनं यत्र तादृशः । परीरम्भारम्भः परीरम्भस्याश्लेषस्यारम्भः ।