SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 11 BT: 11 निवेदनम् । -207 अयि निखिल सहृदय धुरीणा निश्शेषविद्या निष्णाता महानुभावाः ! साहित्यापरपर्याय मलङ्कारशास्त्रमेवालङ्कारायमाणमशेषाणां शास्त्राणामिति सुविदितचरं तत्रभवताम् । एतदेव हि शास्त्रान्तरचमत्कारजातन्निवेदयत्युपास्यमानम् । वापीकूपतड़ाकाद्य खिलजलाशय सम्पाद्यमर्थ जलनिधिरिवेदं सर्वेषां शास्त्राणां चमत्कारोद्बोधं समुपगमयति स्वं सेवमानानामित्येव साहित्याभिधानमलङ्कुरुते । हितेन सह वर्त्तमानत्वमेव साहित्यमितीदमपि तथाभूतमूं । अलङ्कारशास्त्र मिति व्यपदेशबीजमपि तदेवैतस्य । साहित्य प्रधानमलङ्कारशास्त्रमिति न केवलं व्यपदेशः, अपि तु तथाभूतम् । एतदेकमुपासाना भवन्ति निश्चितन्निःशेषतन्त्र स्वतन्त्रा लब्धाभिलषितार्थसार्थाश्च । एषां च साहित्यदर्पणो नाम निबन्धो निबध्नाति सचेतसां चेतांसि, अलङ्करोतिच चमत्कारं सुचेतसां चेतस्तु । यद्यपि सन्ति काव्यप्रकाशादयः परेऽमि परःशतं निबन्धाः, निवहन्ति चमत्कारं च पर प्रौढिम्, तदपि तेषां दुरधिगमत्वाज् झटिति च तेभ्यः फलालांभान्न तथाभूताः । एष पुनर्निबन्धो नातिदुरधिगमो न च झटिति चमत्कारानावहः । अनेकत्र च सञ्चीयसञ्चीय लभ्यानि फलान्ये कस्यैवैतस्योपासितारो लभन्ते, तत्सार्थयति स्वकीयं सुगृहीताभिधानमेषः । एनमुपास्य न चिन्तामणि कामयते, न वा मन्दारम् । एष हन्त कालमहिम्ना दुर्व्याख्याभिर्विच्छायीक्रियमाणोऽतथाभूत इव जात इत्येव पुनः स्वरूपमेनं नेतुकामेन मया प्रतिपदमनुसृत्य सार्थकतान्नीतान्येतदी यान्यक्षराणि सर्वाणि । अथायं पुनः स्ववर्णसद्भावं प्रपन्नः सत्हृदयहृदयालङ्कारो भवितुमर्हतीत्यत्र निकषस्थानानि श्रीमन्त इति । सहृदयचरणानुगतस्य, शिवदत्तशर्मणः.
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy