________________
. ॥ श्रीः ॥ निवेदनपत्रम्
बाग् लक्ष्मीश्च शिवाऽमला च विभुता शान्तिः प्रसत्तिधृतिः कान्तिः कीर्तिरुदारता च करुणा गम्भीरता वा स्वयम् । जाता येन समं दिवं च सकला याता यथार्थाऽभिधं तं विष्वविदितानवद्यचरितं देवीसहायं नुवे ॥ १॥ धूर्तानां विविधानि तानि कुमतान्युत्सार्य येन क्षणाद् .. दिव्यो धर्मदिवाकरः कलियुगे व्याप्तेऽपि विद्योतितः । विश्वोद्धारकृते च यः समभवद् ध्यायंश्च यः शङ्करं यातस्तन्मयतां स्तुवीत सुमनारतं को न विद्यागुरुम् ॥ २ ॥ पाखण्डमतदुर्धान्तविभेदनयशस्विनम् ।
विमलेनोपदेशेन जनोद्धारे कृतक्षणम् ॥ ३ ॥ देवीसहायमानम्य पितामहगुरूद्भवम् ।
व्याख्येयं मनसा तस्य पदद्वन्दे निवेद्यते ॥ ४ ॥ कृतार्थयतु तामेनांत्यक्तमाकृतविग्रहः । दिव्यं स्वरूपमास्थाय सर्वसाक्षितया स्थितः ॥ ५ ॥
AAAAAAAAAAAAAF
रति
शिवदत्तस्य ।