________________
५३६
षष्ठः
- साहित्यदर्पणः। प्रयत्नग्रथनोत्कण्ठोऽवहित्थाप्रतिपत्तयः। विलासीलस्यैवाम्यानि प्रहर्षा श्लीलमूढताः ॥ ५९६ ॥ साधनानुगमोच्छास-विस्मयप्राप्तयेस्तथा । लाभविस्मृतिसम्फेटी वैशारे प्रबोधन ॥ ५९७ ॥
चमत्कृतिश्चेत्यमीषां स्पष्टत्वाल्लक्ष्म नोच्यते ।। . सम्फेटग्रथनयोः पूर्वमुक्तत्वादेव लक्ष्मसिद्धम्। यथा-कनकावतीमाधवः । अथ विलासिका
६१३ शृङ्गारबहुलैकाङ्का दशलास्याङ्गसंयुता ॥ ५९८॥
विदूषकविटाभ्यां च पीठमर्दैन भूषिता। हीना गर्भविमर्शाभ्यां सन्धिभ्यां हीननायका ॥ ५९९ ॥ .
स्वल्पवृत्ता सुनेपथ्या विख्याता सा विलासिका। केचित्वत्र विलासिका'स्थाने 'विनायिकेति पठन्ति, तस्याश्च दुर्मल्लिकापामन्तर्भावः, इत्याहुश्च अथ, दुर्मल्लिका
६१४ दुर्मल्ली चतुरङ्का स्यात् कौशिकीभारतीयुता ॥ ६०० ॥
आगर्भा नागरनरा न्यूननायकभूषिता । त्रिनालिः प्रथमोऽङ्कोऽस्यां विटक्रीडामयो भवेत् ॥ ६०१॥ षण्णालिकस्तृतीयश्च पीठमईविलासवान् ।
चतुर्थों दशनालिः स्यादङ्कः क्रीडितनागरः ॥ ६०२ ॥ प्रार्थना तर्कादयः प्रसिद्धाः । प्रयत्नग्रथनोत्कण्ठावहित्थाप्रतिपत्तयः। प्रयत्न उपायः, ग्रथनं कार्याणामुपन्यसनम्, उत्कण्ठाऽवहित्थे भावविशेषौ, प्रतिपत्तिनिश्चयः । विलासालस्यवाम्यानि विलासालस्ये प्रसिद्धे, वाम्यं प्रातिकूल्यम् । प्रहर्षाश्लीलमूढताः प्रहर्षोऽश्लीलता मूढता चेत्यर्थः । साधनानुगमोच्छासविस्मयप्राप्तयः साधमानुगमः साधनानुकूलत्वम्, उच्छ्रासः शोकव्यजकः श्वासः, विस्मयः प्राप्तिश्च । लाभविस्मृतिसम्फेटा लाभो, विस्मृतिविस्मरणं, सम्फेटः क्रोधोक्तिश्च । वैशारा नैपुण्यम् । प्रबोधनम् । चमत्कृतिः। च । इति । 'सप्तविंशतिरङ्गानीति पूर्वेणान्वयः । अमीषाम् । लक्ष्म लक्षणम् । स्पष्टत्वात् । न । उच्यते ॥ ५९५-५९७ ॥
सम्फेटादेरप्रस्फुटार्थतां परिहरति-सम्फेटेत्यादिना । स्फुटम् । निरुक्तलक्षणं शिल्पकमुदाहरति-यथेत्यादिना । स्पष्टम् ।
विलासिका लक्षयति । अथ । विलासिका-६१३ शृङ्गारबहुला प्रायेण शृङ्गारशालिनी। एकाश । दशलास्याङ्गसंयुता निरुक्तैर्दशभिर्लास्याङ्गैर्युक्ता । विदूषकविटाभ्याम् । पीठमदैन । च । भूषिता युक्ता । गर्भविमर्शाभ्यां तदाख्याभ्याम् । सन्धिभ्याम् । हीना शून्या । हीननायका नीचेन नायकेनाधिकृता । स्वल्पवृत्ता स्वरुपेतिवृत्ता । सुनेपथ्या शोभनं नेपथ्यं वेषप्रसाधना यत्र तादृशी। सा। विलासिका। विख्याता ॥ ५९८ ॥ ५९९ ॥
परमतमुपपादयति-केचित्त्वित्यादिना । तस्या विलासिकाया इत्यर्थः । स्पष्टमन्यत् ।
दुमल्लिकां लक्षयितुमाह- अथ । दुर्मल्लिका । लक्ष्यते ६१४ चतुरङ्का । कौशिकीभारतीयुता कौशिक्या भारत्या च युता । अगी गर्भसन्धिरहिता। नागरनरा नागराश्चतुरा नराः (वर्ण्यमानाः ) यत्र तादृशी। न्यूननायकभूषिता न्यूनो जात्या हीनो यो नायकस्तेन भूषिता। दुर्मल्ली । स्यात् । अस्यां दुर्मल्लिकायां तदाख्य उपरूपक इति यावत् । प्रथमः । अङ्कः। त्रिनालिस्रिस्रो नाल्यो यत्र तादृशः, नाली घटिकाद्वयम् , उपचारात्तावन्मात्रकालनिष्पायेतिवृत्तनिबद्ध इति भावः । विटक्रीडामयोविटक्रीडावर्णनेन भूयान् । भवेत् । तृतीयः। च