________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया क्षमेतः ।
૪૮૨
'सुसङ्गता - जाणिदो मए एसो वुत्तन्तो समं चित्तफलएण । ता देवीए गदुअ निवेदइस्सम् ।' एतद्वाक्य संबन्धि नमदाहृतम् । एवं वेषचेष्टा सम्बन्ध्यपि ।
४६० नर्मस्फूर्जः सुखारम्भो भयान्तो नवसङ्गमः ।
यथा मालविकायाम्-सङ्केतनायकमभिसृतायां 'नायक:
विस्रुज सुन्दरि सङ्क्रमसाध्वसं ममु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ।। २८३ । मालविका भट्टा, देवी भएण अप्पणो वि पिअं कउंण पारेमिं ।' इत्यादि । अथ नर्मस्फोट:४६१ नर्मस्फोटो भावलेशैः सूचितात्परसो मतः ॥ ४२४ ॥
-
'सुसङ्गता 'राजानं प्रत्याहे 'ति शेषः । जाणिदो ज्ञातः । मए मया । एसो एष रत्नावल्याश्चित्रदर्शनेन तस्यामनुरागोद्भावनरूप इति भावः । चित्तफलक्षण चित्रफलंकन रत्नावल्याश्चित्रपटेनेति भावः । समं समम् । वृत्तंतो वृत्तान्तः । ता तत् । गदुए गत्वा । देवीए देव्यै वासवदत्तायै इत्यर्थः । णिवेदद्दस्वं निवेदयिष्ये कथयिष्यामीति भावः।' एतत् । वाक्यसम्बन्धि वाक्यमात्रावष्टम्भम् । नर्म क्ष्वेलितम् । उदाहृतम् । एवम् | वेषचेष्टासम्बन्धि । अपि । 'नमदाहर्त्तव्यमिति शेषः । यथा - रत्नावल्याम् ' सुसङ्गता - ( दृष्ट्वा विहस्य ) अइ कादरे ! मा भाआइ, ण होइ - एसो वाणरो, अज्जवसंतओ क्खु एसो ( अयि कातरे मा बिभेहि न भवति एष वानरः, आर्यवसन्तकः खल्वेषः ) इत्यन वेष भयसम्बन्धि । एवमन्यदिति ) दिक् ।
नर्मस्फूर्जे लक्षयति - ४६० मर्मस्फूर्ज इत्यादिना ।
४६० सुखारम्भः सुखभारम्भे यस्य तादृशः । भयान्तो भयमन्ते यस्य सः । नवसङ्गमः । नर्मस्फूर्जः । 'उच्यते ' इति शेषः । तथोक्तम्- ' नवसङ्गमसम्भोगो रतिसमुदयवेषवाक्यसंयुक्तः । ज्ञेयो मर्मस्फूर्जे ह्यवमानभयात्मक - चैव ॥' इति ।
उदाहरति यथा । सङ्केशमायकम् । अभिसृतायां लक्ष्मीकृत्य प्राप्तायाम् । मालविकायाम् ( सति सप्तमीयम् ) । 'नायकः । ( मालविकां प्रत्याह ) ।
हे सुन्दरि ! सङ्गमसाध्वसं प्रसङ्गे भयम् । विसृज । ननु ( इदं वाक्यालङ्कारे ) चिरात् प्रभृति बहोः कालात् । प्रणयोन्मुखे तव प्रणयाभिलाषिणि । अत एव सहकारतामतिसुगन्धिताम्ररूपत्वं सहकारित्वं च । गते प्राप्ते । मयि । त्वम् । अतिमुक्तलताचरितमतिमुक्ता वासन्ती एव लता तस्याश्वरितं तत्, अतिशयेन मुक्तं तं तं (रलयोः सावर्ण्यम्) तस्याचरितमाचरणं पुनः सम्पादनं तदिति वा । परिगृहाणादेहि आधेहि वा । द्रुतविलम्बितंवृत्तम् ॥ २८३ ॥
मालविका (नायकं प्रत्याह ) भट्टा भर्त्तः । देवीए देव्या महारक्षका इति यावत् । भएण भयेन । अप्पणो आत्मनः । वि अपि । पिअं प्रियम् । कडं कर्तुम् । ण न । पारेमि पारयामि ।' इत्यादि । एवं चात्र स्फुटो
लक्षणसमन्वयः ।
नर्मस्फोटं लक्षयितुमाह-अथ । नर्मस्फोट: । लक्ष्यते - ४६१ नर्मेत्यादिना ।
४६१ भावलेशैरीषत्प्रकटितैरभिप्रायैः । सूचिताल्परसः सूचितोऽल्परसः किञ्चिदायादो यत्र सः । नर्मस्फोटः । मतः ॥ ४२४ ॥
१ 'ज्ञातोमयैष वृत्तान्तः समं चित्रफलकेन । तद्देव्यै गत्वा निवेदयिष्ये' इति संस्कृतम् । २ ' भर्त्तः । देव्याभयेनात्मनोऽपि प्रियं कर्तु न यारयामी' ति संस्कृतम् ।
६२