________________
४७६
[ षष्ठः
साहित्यदर्पणः ।। ४२३ व्यवसायश्च विज्ञेयः प्रतिज्ञाहेतुसम्भवः । यथा तवैव "भीमःनिहताशेषकौरव्यः क्षीबो दुःशासनासजा । भक्ता दुर्योधनस्योर्वो(मोऽयं शिरसा नतः॥३६८॥"
४२४ द्रवो गुरुव्यतिक्रान्तिः शोकावेगादिसम्भवा ॥ ३९९ ॥ ' यथा तत्रैव 'युधिष्ठिरः धिगस्मद्भागधेयानि । (आकाशमवलोकयन् ) भगवन् ! कृष्णाग्रज ! सुभद्राभ्रातः ! ज्ञातिप्रीतिमनसि न कृता क्षत्रियाणां न धर्मो रूढं सख्यं तदपि गणित नानुजस्यार्जुनेन । सुल्यः कामं भवतु भवतःशिष्ययोः स्नेहबन्धः कोऽयं पन्था यदसि विमुखो मन्दभाग्यो मयीत्थम्॥३६९॥
४२५ तर्जनोद्वेजने प्रोक्ता द्युतिः यथा तत्रैव दुर्योधनं प्रति भीमेनोक्तम्"जन्मेन्दोविमले कुले व्यपदिशस्यद्यापिधत्से गदां मां दुःशासनकोष्णशोणितमधुक्षीवं रिपुंमन्यसे। दन्धिो मधुकैटभद्धिषि हरावप्युद्धतं चेष्टसे त्रासान्मे नृपशो ! विहाय समरं पङ्केऽधुना लीयसे३७०॥"
शेषः । ये । नरेन्द्राः । हताः। तैः । किम् । अपकृतम् । 'तवे'ति शेषः । वद त्वमेवे'ति शेषः । वाहोर्भुजयोः । वीर्यातिरेकद्रविणगुरुमदं वीर्यस्यातिरेकोऽतिशयः स एव द्रविणं धनं तेन गुरुमदो यस्य तादृशम् । माम् । अजिरवा एव । दोऽभिमानः । अत्र हि हतबान्धवस्यापि दुर्योधनस्य भीमवचोऽसहमानस्य रोषोक्तिः । स्रग्धरावृत्तम् ॥३६७॥'
व्यवसाय लक्षयति-४२३ व्यवसायेति । ४२३ प्रतिज्ञाहेतुसम्भवः प्रतिज्ञव हेतुः सम्भवो यस्य तथोक्तः । च । व्यवसायः । विज्ञेयः।
उदाहरति-यथा । तत्र । एव वेणीसंहारस्य पञ्चमाङ्के । 'भीमः । निहताशेषकौरव्यः निहता अशेषाः कोरव्याः कौरवा येन तादृशः । दुःशासनासृजा 'पीतेनेति शेषः । दुःशासनरुधिरपानेनेति भावः । क्षीबो मत्तः । दुर्योधनस्य । ऊर्वोः ऊरूयुगलस्य । शेषे षष्ठी । भट्टा खण्डयिता । अयम् । भीमः । शिरसा ज्येष्ठतातमिति शेषः । नतः प्रणतः । अत्र दुःशासनादिहननादिव्यवसायः प्रतिज्ञाहेतुकः ॥ ३६८ ॥'
द्रवं लक्षयति-४२४ द्रव इत्यादिना।
४२४ शोकावेगादिसंभवा शोकस्यावेगोऽत्यन्तं वृद्धिः स आदिसम्भव आदिकारणं यस्यास्तथोक्ता। गुरुव्यतिकान्तिगुरूणां व्यतिक्रान्तिर्व्यतिक्रमः । द्रवः ॥ ३९९ ॥
उदाहरति-यथा । तत्रैव वेणीसंहारस्य षष्ठाङ्के । युधिष्ठिरः। अस्मद्भागधेयानि अस्माकं भागधेयानि । धिक (आकाशम् । अवलोकयन्हे भगवन् ! कृष्णाग्रज ! सुभद्राभ्रातः सुभद्राया भ्रातः ।
ज्ञातिप्रीतिः । मनसि । न । कृता क्षत्रियाणाम् । धर्मः। न 'गणित'इति शेषः (युद्धे पक्षपातित्वाभावात्म को धर्मः,ज्ञातिप्रीतिश्च यादवानां पाण्डवानां च चन्द्रवंश्यत्वात् प्रेम)अनुजस्य कृष्णस्य । अर्जुनेन । सहार्थे तृतीया। सख्यं मित्रत्वम् । रूढं प्रसिद्धम्। 'यदि'ति शेषः । तदपि । न । गणितम् । शिष्ययोर्भीमसेनदुर्योधनयोरुभयोरपि कनिष्टत्वात् गदायुद्धे च शिक्षणीयत्वाद्वा शिष्यभूतयोरिति भावः । स्नेहन्बधः। तुल्यः समानः । कामं यथेष्टम् । भवतः । भवतु 'न तुविषम'इति शेषः । अथ-अयम् । कः । पन्था मार्गः। यत यतः। मन्दभाग्ये। मयि । इत्थं श्रीकृष्णस्य सन्निधिदूरीकरणेनेति भावः । विमुखः । असि अत्र हि मायाविनोमुंनिवेषधारिणो राक्षसस्य वचसा भीममरणदुर्योधनार्जुनसमरबलदेवकृतकृष्णापनयनजन्यशोकेन युधिष्ठिरस्य बलदेवादरोल्लङ्घनम् । मन्दाक्रान्ता वृत्तम् ॥३६९॥'
युतिं लक्षयति-४२५ तर्जनेत्यादिना । स्पष्टम् ।
उदाहरति-यथा । तत्र । वेणीसंहारे षष्ठेके । एव । 'भीमेन । दुर्योधनम् । मध्येसरः शयानमिति शेषः । प्रति । उक्तम् । मथा-हे नृपशो जनाधम ! सम्बुद्धौ । इन्दोश्चन्द्रमसः । विमले पवित्रे । कुले । जन्म