________________
વિન્યાલોક प्रसिद्धः । अपृथग्भावे तु तदङ्गत्वं तस्य । न तु तत्त्वमेव । यत्रापि तत्त्वं तत्रापि ध्वनेर्महाविषयत्वान्न तन्निष्ठत्वमेव ।
१३.१० ‘सूरिभिः कथितः' इति विद्वदुपज्ञेयमुक्तिः, न तु यथाकथञ्चित् प्रवृत्तेति प्रतिपाद्यते ।
प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरणमूलत्वात् सर्वविद्यानाम् । ते च श्रूयमाणेषु वर्णेषु ध्वनिरिति व्यवहरन्ति । तथैवान्यैस्तन्मतानुसारिभिः सूरिभिः काव्यतत्त्वार्थदर्शिभिर्वाच्यवाचकसम्मिश्रः शब्दात्मा काव्यमिति व्यपदेश्यो व्यञ्जकत्वसाम्याद् ध्वनिरित्युक्तः। .
न चैवंविधस्य ध्वनेर्वक्ष्यमाणप्रभेदत दसङ्कलनया महाविषयस्य यत् प्रकाशनं 'तदप्रसिद्धालङ्कारविशेषमात्रप्रतिपादनेन तुल्यमिति तद्भावितचेतसां युक्त एव संरम्भः । न च तेषु कथञ्चिदीर्ध्याकलुषितशेमुषीकत्वमाविष्करणीयम् । तदेवं ध्वनेरभाववादिनः प्रत्युक्ताः।
१३.११ अस्ति ध्वनिः । स चाविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्विविधः सामान्येन । तत्राद्यस्योदाहरणम्
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।। द्वितीयस्यापि
शिखरिणि क नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । सुमुखि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥१३॥ यदप्युक्तं भक्तिर्ध्वनिरिति, तत् प्रतिसमाधीयते
भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः । अयमुक्तप्रकारो ध्वनिर्भक्त्या नैकत्वं बिभर्ति, भिन्नरूपत्वात् । वाच्यव्यतिरिक्तस्यार्थस्य वाच्यवाचकाभ्यां तात्पर्येण प्रकाशनं यत्र व्यङ्ग्यप्राधान्ये स ध्वनिः । उपचारमात्रन्तु भक्तिः ।
१. 'तदत्र प्रसिद्धा' नि०, दी। २. 'ध्वनेस्तावदभाववादिनः' नि०, दी० ।