________________
२७४
.... पन्यासो गाथा चात्र कृतैव महाकविना- ...
अतहट्ठिए वि तहसण्ठिए व्व हिअअम्मि जा णिवेसेइ । अत्थविसेसे सा जअइ विकडकइगोअरा वाणी ।। (अतथास्थितानपि तथा संस्थितानिव हृदये या निवेशयति ।
अर्थविशेषान् सा जयति विकटकविगोचरा वाणी ॥ इति च्छाया) तदित्थं रसभावाद्याश्रयेण काव्यार्थानामानन्त्यं सुप्रतिपादितम् ।।३।। एतदेवोपपादयितुमुच्यते
दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् ।
सर्वे नवा इवाभान्ति मधुमास इव द्रु माः ॥४॥ तथा हि विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यप्रकारसमाश्रयेण नवत्वम् । यथा"धरणांधारणायाधुना त्वं शेष” इत्यादेः,
शेषो हिमगिरिस्त्वञ्च महान्तो गुरवः स्थिराः ।
यदलङ्घितमर्यादाश्चलन्ती बिभ्रथ भुवम् ॥ इत्यादिषु सत्स्वपि। तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्गयसमाश्रयेण नवत्वम्, यथा"एवंवादिनि देवर्षों' इत्यादि श्लोकस्य, ।
कृते वरकथालापे कुमार्यः पुलकोद्गमैः ।
सूचयन्ति स्पृहामन्तर्लज्जयावनताननाः ॥ इत्यादिषु सत्सु । अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविप्रौढोक्तिनिर्मितशरीरत्वेन नवत्वम्, यथा"सज्जइ सुरहिमासो" इत्यादेः,
सुरभिसमये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः ।
रागवतामुत्कलिकाः सहैव सहकारकलिकाभिः ॥ इत्यादिषु सत्स्वप्यपूर्वत्वमेव ।
अर्थशक्त्युद्भवानुरणनरूपव्यङ्गयस्य कविनिबद्धवक्तृप्रौढोक्तिनिष्पन्नशरीरत्वे सति, नवत्वं यथा“वाणिअअ हत्थिदन्ता" इत्यादिगाथार्थस्य,
करिणवेहव्वअरो मह पुत्तो एक्ककाण्डविणिवाई। १. 'बिभ्रते' बा० प्रि०। २. 'क्षितिम्' नि०, दी। ३. 'सत्स्वपि' नि०, दी० ।