________________
--- वन्याला तद्व्यतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभावमूलैव' । यस्मादनाख्येयत्वं सर्वशब्दागोचरत्वेन न कस्यचित्सम्भवति । अन्ततोऽनाख्येयशब्देन तस्याभिधानसम्भवात् ।।
सामान्यसंस्पर्शिविकल्पशब्दागोचरत्वे सति प्रकाशमानत्वं तु यदनाख्येयत्वमुच्यते क्वचित्, तदपि काव्यविशेषाणां रत्नविशेशाणामिव न सम्भवति । तेषां लक्षणकारैर्व्याकृतरूपत्वात् । रत्नविशेषाणां च सामान्यसम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च । उभयेषामपि तेषां प्रतिपत्तृविशेषसंवेद्यत्वमस्त्येव । वैकटिका एव हि रत्नतत्त्वविदः । सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः । ___ यत्त्वनिर्देश्यत्वं सर्वलक्षणविषयं बौद्धानां प्रसिध्धं तत् तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः । इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते । बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथाऽस्माकं ध्वनिलक्षणं भविष्यति ।
'तस्माल्लक्षणान्तरस्याघटनादशब्दार्थत्वाच्च तस्योक्तमेव ध्वनिलक्षणं साधीयः । तदिदमुक्तम्
अनाख्येयांशभासित्वं निर्वाच्यार्थतया ध्वनेः । न लक्षणं लक्षणं तु साधीयोऽस्य यथोदितम् ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके
तृतीय उद्योतः।
१. विवेकावसादगर्भरभसमूलैव' नि०, दी। २. 'शब्दार्थगोचरत्वेन' दी०, सर्वशब्दार्थगोचरत्वेन' नि० । ३. ‘तदभिधानात्' दी० । ४. 'तदनाख्येयत्वमुच्यते' नि० । ५. 'तस्माल्लक्षणान्तरस्या घटनादर्शनादशब्दार्थत्वाच्च' नि० ।