________________
વન્યાલોક __ यदा तु चाटुषु देवतास्तुतिषु वा रसादीनामङ्गतया व्यवस्थानम्, हृदयवतीषु च 'सप्रज्ञकगाथासु कासुचिद् व्यङ्ग्यविशिष्टवाच्ये प्राधान्यं तदपि गुणीभूतव्यङ्ग्यस्य ध्वनिनिष्यन्दभूतत्वमेवेत्युक्तं प्राक् ।
तदेवमिदानीन्तनकविकाव्यनयोपदेशे क्रियमाणे प्राथमिकानामभ्यासार्थिनां यदि परं चित्रेण व्यवहारः । प्राप्तपरिणतीनान्तु ध्वनिरेव काव्यमिति स्थितमेतत् । तदयमत्र संग्रहः- .
यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते । संवृत्याभिहितं वस्तु यत्रालङ्कार एव वा ।। काव्याध्वनि ध्वनिर्व्यङ्ग्याप्राधान्यैकनिबन्धनः । सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर्जनैः ॥४३।। सगुणीभूतव्यङ्गयैः सालङ्कारैः सह प्रभेदैः स्वैः ।
सङ्करसंसृष्टिभ्यां पुनरप्युद्योतते बहुधा ॥४४॥ तस्य च ध्वनेः स्वप्रभेदैः, गुणीभूतव्यङ्ग्येन, वाच्यालङ्कारैश्च सङ्करसंसृष्टिव्यवस्थायां क्रियमाणायां बहुप्रभेदता लक्ष्ये दृश्यते । तथा हि स्वप्रभेदसङ्कीर्णः स्वप्रभेदसंसृष्टो, गुणीभूतव्यङ्गयसङ्कीर्णो, गुणीभूतव्यङ्ग्यसंसृष्टो, वाच्यालङ्कारान्तरसङ्कीर्णो, वाच्यालङ्कारान्तरसंसृष्टः, संसृष्टालङ्कारसङ्कीर्णः, संसृष्टालङ्कारसंसृष्टचेति बहुधा ध्वनिः प्रकाशते । ___ तत्र स्वप्रभेदसङ्कीर्णत्वं कदाचिदनुग्राह्यानुग्राहकभावेन, यथा ‘एवंवादिनि देव!' इत्यादौ । अत्र ह्यर्थशक्त्युद्भवानुरणनरुपव्यङ्ग्यध्वनिप्रभेदेनालक्ष्यक्रमव्यङ्ग्यध्वनिप्रभेदोऽनुगृह्यमाणः प्रतीयते । एवं कदाचित्प्रभेदद्वयसम्पातसन्देहेन यथा- .
खणपाहुणिआ देअर एसा जाआए किंपि ते भणिदा । रुअइ पडोहरवलहीघरम्मि अणुणिजउ वराई ।। (क्षणप्राघुणिका देवर एषा जायया किमपि ते भणिता ।
रोदिति शून्यवलभीगृहेऽनुनीयतां वराकी ॥ इति च्छाया) अत्र ह्यनुनीयतामित्येतत् पदमर्थान्तरसमितवाच्यत्वेन विवक्षितान्यपरवाच्यत्वेन च सम्भाव्यते । न चान्यतरपक्षनिर्णये प्रमाणमस्ति । १. षड्प्रज्ञादिगाथासु लि., षट्प्रज्ञादिगाथासु दी० । २. व्यङ्ग्यविशिष्टवाच्यात् नि... ३. संवृत्यामिहितौ . प्रि. ४. ध्वनेव्यङ्ग्यं प्राधान्यक निंबन्धनः। A...