________________
२४८
----पन्या अनया सुप्रसिद्धोऽप्यर्थः किमपि कामनीयकमानीयते । तद्यथाविसम्भोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः केऽपि लीलाविशेषाः ।
अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः ॥ इत्यत्र, केऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं वस्त्वक्लिष्टमनन्तमर्पयता का छाया नोपपादिता ॥३८॥
अन्तरगतिः काका या चैषा परिदृश्यते ।
सा व्यङ्गयस्य गुणीभावे प्रकारमिममाश्रिता ॥३९॥ या चैषा काक्वा क्वचिदर्थान्तरप्रतीतिर्दृश्यते सा व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूतव्यङ्ग्यलक्षणं काव्यप्रभेदमाश्रयते । यथा
‘स्वस्था भवन्ति मयि जीवति धार्तराष्टाः ।' यथा वा
आम असइओ ओरम पइव्वए ण तुए मलिणिअं सीलम् । किं उण जणस्य जाअ व्व चन्दिलं तं ण कामेमो ॥ (आम असत्यः, उपरम पतिव्रते न त्वया मलिनितं शीलम् । किं पुनर्जनस्य जायेव नापितं तं न कामयामहे ॥
-इति च्छाया) शब्दशक्तिरेव हि स्वाभिधेयसामर्थ्याक्षिप्तकाकुसहाया सती, अर्थविशेषप्रतिपत्तिहेतुर्न काकुमात्रम् । विषयान्तरे स्वेच्छाकृतात् काकुमात्रात् तथाविधार्थप्रतिपत्त्यसम्भवात् । स चार्थः काकुविशेषसहायशब्दव्यापारोपारूढोऽप्यर्थलभ्य इति व्यङ्ग्यरूप एव । वाचकत्वानुगमेनै तु यदा तद्विशिष्टवाच्यप्रतीतिस्तदा गुणीभूतव्यङ्ग्यतया तथाविधार्थद्योतिनः काव्यस्य व्यपदेशः । व्यङ्ग्यविशिष्टवाच्याभिधायिनी हि गुणीभूतव्यङ्गयत्वम् ॥३९।।
प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते ।
विधातव्या सहृदयैर्न तत्र ध्वनियोजना ॥४०॥ सङ्कीर्णो हि कश्चिद् ध्वनेर्गुणीभूतव्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः । तत्र यस्य युक्तिसहायता तत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिरागिणा भवितव्यम् । यथा
१. 'विलासाः' नि०, दी। २. नि०, दी० में 'वस्तु' पर नहीं है । ३. 'यद्यस्य' नि० ।