________________
२४२
तदेवम
ધ્વન્યાલોક
विमतिविषचो य आसीन्मनीषिणां सततमविदितसतत्त्वः । ध्वनिसंज्ञितः प्रकारः काव्यस्य व्यञ्जितः सोऽयम् ||३४|| प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते ।
तत्र व्यङ्गयान्वये वाच्यचारुत्वं स्यात् प्रकर्षवत् ||३५|| व्यङ्गयोऽर्थो ललनालावण्यप्रख्यो यः प्रतिपादितस्तस्य प्राधान्ये ध्वनिरित्युक्तम् । तस्य' तु गुणीभावेन बाच्यचारुत्वप्रकर्षे गुणीभूतव्यङ्गयो नाम काव्यप्रभेदः प्रकल्प्यते । तत्र वस्तुमात्रस्य व्यङ्ग्यस्य तिरस्कृतवाच्येभ्यः प्रतीयमानस्य कदाचिद्वाच्यरूपवाक्यार्थापेक्षया गुणीभावे सति गुणीभूतव्यवयता ।
यथा
लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ।। अतिरस्कृतवाच्येभ्योऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाचिद्वाच्यप्राधान्येन काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता । यथोदाहृतम् 'अनुरागवती सन्ध्या' इत्येवमादि ।
तस्यैव स्वयमुक्त्या प्रकाशीकृतत्वेन गुणीभावो यथोदाहृतम् 'सङ्केतकालमनसम्’' इत्यादि ।
रसादिरूपव्यङ्गयस्य गुणीभावो रसवदलङ्कारे' दर्शितः । तत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो 'विवहनप्रवृत्तभृत्यानुयायिराजवत् । व्यङ्गचालङ्कारस्य गुणीभावे दीपकादिविषयः ||३५||
तथा
प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः ।
ये च तेषु प्रकारोऽयमेव योज्यः सुमेधसा ||३६||
ये चैतेऽपरिमितस्वरूपा अपि प्रकाशमानास्तथाविधार्थरमणीयाः सन्तो विवेकिनां सुखावहाः काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणीभूतव्यङ्ग्यो नाम योजनीयः । यथा
१. 'तस्यैव' नि०, दी० ।
३. 'काव्य' पद नि०, दी० में नहीं है । ५. 'गुणीभावे रसवदलङ्कारविषयः प्राक् दर्शितः' ६. 'विवाह' नि० ।
८. 'परिमितस्वरूपा' नि०, दी० ।
२. 'शब्देभ्यः' पाठ नि०, दी० में अधिक है । ४. 'गुणभावः' नि०, दी० ।
दी० 'गुणीभावे रसवदलङ्कारो दर्शितः' नि० । ७. 'प्रकारोऽयमेवं' नि०, दी० ।
९. ' तथा रमणीयाः' नि०, दी० ।