________________
ધ્વન્યાલોક अलौकिके ह्यर्थे तार्किकाणां विमतयो निखिलाः प्रवर्तन्ते न तु लौकिके । न हि नीलमधुरादिष्वशेषलोकेन्द्रियगोचरे बाधारहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते । न हि बाधारहितं नीलं नीलमिति ब्रुवन्नपरेण प्रतिषिध्यते नैतन्नीलं पीतमेतदिति । तथैव व्यञ्जकत्वं वाचकानां शब्दानामवाचकानां च गीतध्वनीनामशब्दरूपाणां च चेष्टादीनां यत्सर्वेषामनुभवसिद्धमेव' तत्केनापर्यते ।
अशब्दमर्थं रमणीयं हि सूचयन्तो व्याहारास्तथा व्यापारा निबद्धाश्चानिबद्धाश्च विदग्धपरिषत्सु विविधा विभाव्यन्ते । 'तानुपहस्यमानतामात्मनः परिहरन् कोऽतिसन्दधीत सचेताः। __"ब्रूयात् ! अस्त्यतिसन्धानावसरः । व्यञ्जकत्वं शब्दानां गमकत्वम् तच्च लिङ्गत्वम् । अतश्च व्यङ्ग्यप्रतीतिर्लिङ्गिप्रतीतिरेवेति लिङ्गलिङ्गिभाव एव तेषाम्, व्यङ्ग्यव्यञ्जकभावो नापरः कश्चित् । अतश्चैतदवश्यमेव बोद्धव्यं यस्माद्वक्त्रभिप्रायापेक्षया व्यञ्जत्वमिदानीमेव त्वया प्रतिपादितम् । वक्त्रभिप्रायश्चानुमेयरूप एव । _ 'अत्रोच्यते, नन्वेवमपि यदि नाम स्यात् तत्किनश्छिन्नम् । वाचकत्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकत्वलक्षणः शब्दव्यापारोऽस्तीत्यस्माभिरभ्युपगतम् । तस्य चैवमपि न काचित् क्षतिः । तद्धि व्यञ्जकत्वं लिङ्गत्वमस्तु अन्यद्वा । सर्वथा प्रसिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्यापारविषयत्वं च तस्यास्तीति नास्त्येवावयोर्विवादः ।
न पुनरयं परमार्थो यद् व्यञ्जकत्वं लिङ्गत्वमेव सर्वत्र, व्यङ्ग्यप्रतीतिश्च लिङ्गिप्रतीतिरेवेति ।
यदपि स्वपक्षसिद्धयेऽस्मदुक्तमनूदितम्, त्वया वक्त्रभिप्रायस्य व्यङ्ग्यत्वेनाभ्युपगमात् तत्प्रकाशने शब्दानां लिङ्गत्वमेवेति तदेतद्यथास्माभिरभिहितं तद्विभज्य प्रतिपाद्यते, श्रूयताम् ।
१. 'विमतयो निखिला' के स्थानपर नि०, दी. में 'अभिनिवेशा' पाठ है। २. 'एव' पद नि० में नहीं है। ३. 'तत्केनामिश्रूयते (पढ्यते ?)' ऐसा पाठ नि० में है। ४. ‘तथा व्यापारनिबन्धाश्च' नि०, दी० । ५. 'नानु' नि०। ६. 'कोऽभिसन्दधीत' नि० । 'कथमभिसंदधीत' दी० । ७. (ब्रूयात्) अस्त्यभिसन्धानावसरे' नि०, दी० । ८. 'अत्रोच्यते' पाठ नि० में नहीं है।